सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 611, कुल 723 में से
संदर्भ में पढ़ेंऋतुवर्णनाध्यायः ५०९ इति मञ्जु रटन्त्यथाऽऽकुला सकचाकर्षणचुम्बिताधरा । श्रमनिमीलितचारुलोचना द्रवतां याति तदा विलासिनी ॥ श्लथदेहलतां समूर्छनां दरसंमीलितलोचनोत्पलाम् । समवेक्ष्य नितान्तनिःसहामवगच्छेदबलां द्रुतामिति । विपरीतरते यदाऽङ्गना हृदि मुष्ट्या परिताडयेत्पतिम् । करघातनकं तदा बुधैरिति संतानितसंज्ञमुच्यते ॥ विस्तीर्णहस्तेन रतौ यदा स्त्री हन्यात्पति स्यात्सपताकसंज्ञः । अङ्गुष्ठकेनैव कृतप्रहारो विज्ञैः स उक्तः किल बिन्दुमालः ॥ साङ्गुष्ठमध्याङ्गुलिकाप्रहारं शनैः पुरन्ध्री कुरुतेऽतिरागात् । यच्चेष उक्तः कविभिः पुराणैरानन्दकृत्कुण्डलनामधेयः ॥ इति । पुरुषायितताडनयोश्च मया त्वमुपद्रुतस्तत्त्रासादि शीघ्रं नाऽऽगतोऽसीत्युपहासैरुपहा- सान्तरैर्वा संयुक्तमित्यर्थः । तथा चोपहासानां निष्कपटद्योतकत्वाद्वस्तुतः प्रियतमसमागम इव विरहदुःखं विस्मृत्य स्वानन्देन लपतीति भावः । अत्र विरहाख्यः शृङ्गारो रसः । प्रसादमधुर्यादिगुणाः । अनुप्रासोऽलंकारः । तया च नदीपूरमालतीप्रफुल्लनमयूरशब्दकदम्ब- प्रफुल्लनमेघागमादिकं वर्षाकालचिह्न म् ॥७॥ अथ क्रमप्राप्तां शरदं मालिन्या वर्णयति—स्वतनुजवनराज्येति । शरद्ऋतौ शैलः पर्वत इत्येवमनुतप्तः पश्चात्तापं प्राप्तः सूर्यकिरणतप्त इत्यर्थः । निशि रात्रौ । दिने निर्झ- राणां सूर्यकिरणैः शोषसंभवाच्छशिकरचञ्चन्निर्झरैः । चन्द्रकिरणप्रतिफलनाद्देदीप्यमाना ये निर्झराः स्वाऽङ्गस्रवदुदकधारारूपास्तैरश्रुकल्पनैर्नोद्भवोदकतुल्यैरित्यर्थः । कल्पनेनेन निर्झरा उपमेया उपमानाश्रुभिरुपमिता इत्युपमालंकारः । रोदिति रोदनं करोति । इव- शब्दादेते पर्वतनिर्झराः पर्वतारोदनजाश्रूणीत्युत्प्रेक्षालंकारः । नन्वनुतप्तोऽपि रोदनं कुतः करोति धैर्यभरणेन तदसंभवादित्यतः शैलविशेषणमाह—हृदिजखेदखेदवानिति । हृदि अन्तः- करणे जातो यः खेदः सहनायोग्यं यद्दुःखं तस्माज्जाता ये स्वेदा घर्मोदकानि तैर्युक्त इत्यर्थः । तथा चात्यन्तदुःख विक्येन धैर्यापाकरणाद्रोदनं संभवतीति भावः । अनेन पर्वत- निर्झराः पर्वतघर्मोदकोत्प्रेक्षिताः । अत एव घर्मोदकस्याश्रुत्वासंभवात्तदभेदेऽपि तद्भेदज्ञा- नार्थमश्रुकल्पैरिति पृथगुक्तमिति ध्येयम् । इति किमतस्तमनुतापमाह-स्वतनुजवनराज्येति । स्वस्य पर्वतस्य तनुः शरीरं तस्मा- ज्जाता या वनराजिर्लतापङ्क्तिस्तस्येत्यर्थः । अनुचितकृतसंगः । अनुचितो निन्दितः कृतः संपादितः सङ्गः समालिङ्गनादिकं येनासौ । पुत्रीं प्रति गत इत्यर्थः । एतादृशोऽहमस्मि तिष्ठामि । अस्मीत्यनेनैतादृशं पापं कृत्वाऽपि जीवामि लोकानां मुखं च प्रदर्शयामीत्यति- निर्लज्जत्वं भ्रष्टत्वं सूचितम् । ननु प्रथमं सङ्गः किमर्थं तदनु पश्चात्तापश्च किमर्थमित्यतो वनराजिविशेषणमाह—