भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 637, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 637

प्रश्नाध्यायः ५३५ अथान्यं प्रश्नमाह— ये याताधिकमासहीनदिवसा ये चापि तच्छेषके । तेषामैक्यमवेक्ष्य यो दिनगणान् ब्रूतेऽत्र कल्पे गतान् ॥ संश्लिष्टस्फुटकुट्टकोद्भूतबटुक्षुद्रैणविद्रावणे । तस्याव्यक्तविदो विदो विजयते शार्दूलविक्रीडितम् ॥१०॥ वा० भा०—स्पष्टार्थम् ॥१०॥ मरीचिः—अथ बीजोत्तरे संबन्धिप्रश्नमाह—ये याताधिकेति । ये यत्संख्याकाः । याताधिकमासहीनदिवसा अहर्गणानयने गताधिमासाः । तत्र च गतावमदिनानि । अत्र च संख्यावृत्तेर्बहुत्वाद्वहुवचनम् । ये यत्संख्याके । तच्छेषके तयो- रधिमासावमयोः शेषे । चः समुच्चये । अपिशब्दानुमासदिनयोर्वैजात्यं प्रश्ने प्रतिबन्धकं नेत्यर्थः । तेषां चतुर्णामैक्यं नियोगमवेक्ष्य ज्ञात्वा । अत्र यत्संबन्धिदिने । कल्पे कल्पादित इत्यर्थः । कल्पादिति पाठश्चेत्साधुः । गतान् दिनगणान् । बहुवचनेन सौरचान्द्रसावनात्म- काहर्गणत्रयं सूचितम् । यो गणको ब्रूते गणितोक्त्या कथयति यस्य गणकस्य विदः कल्पकस्याकल्पकत्वं कुत इत्यत आह—अव्यक्तविद इति । अव्यक्तं बीजगणितं वेत्तीति । बीजगणितज्ञातुः । तथा च बीजस्य बुद्धिरूपत्वात्कल्पकत्वं स्वतःसिद्धमिति भावः । अनेनान्य बीजगणितप्रक्रियोत्तरं सूचितम् । संश्लिष्टस्फुटकुट्टकोद्भूतबटु क्षुद्रैणविद्रा- विणे । संश्लिष्टसंज्ञको यः स्फुटकुट्टकः । एको हरश्चेद्गुणकौ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् । अग्रैक्यमग्रं कृत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसाविति ॥ कुट्टकाध्याये प्रतिपादितः । तत्रोद्भूता अतिकल्पनासमर्था ये बटवो बालकास्त एव क्षुद्रैणा नीचहरिणाः । नीचत्वमल्पज्ञानजनितकुगवर्वाश्रयत्वम् । तेषां विद्रावणे । विदारणे । अनेन केवलं स्फुटकुट्टकेन प्रश्नोत्तरदानसमर्थास्तेषामपि भञ्जकोऽयं प्रश्न उत्तरानुपस्थिते- रिति सूचितम् । शार्दूलविक्रीडितम् । शार्दूलश्चतुष्पदेष्वतिबलान्वितो व्याघ्रविशेषः । तस्य विक्रीडितं तत्क्रीडनं विजयते सर्वोत्कर्षेणास्ति । एतदुत्तरश्रवणेन स्फुटकुट्टककल्पनाभिमानिनां मरण- मेव भवतीति भावः । अत्र स्फुटकुट्टकेत्यनेन विना कुट्टकं बीजक्रिययाऽस्योत्तरमशक्य- मित्यनेकवर्णसमीकरणबीजेनोत्तरं सूचितम् । शार्दूलविक्रीडितं छन्दोऽपि सूचितम् । विदः पण्डितात् । अव्यक्तविदः । बीजगणित- ज्ञातुः सकाशात् । विश्लिष्टेत्यादि विद्रावणनिमित्तम् । तदुत्तरं कृताष्टाष्टोत्यादि वक्ष्य- माणं तदर्थमित्यर्थः । प्रश्नकर्तुः शार्दूलविक्रीडितं विजयते । एतत्पद्यश्रवणादुत्तरापेक्षा भवतीति भावः । तस्य कस्येत्यपेक्षायामाह—ये इत्यादि । याताधिकमासहीनदिवसाः । अवगतवर्ण- च्छन्दोगणेषु । अधिको मुख्यः । पूर्वोक्तेः । त्रिगुरुत्वाच्च । एतादृशो यो मासगणः स