भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 640, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 640

Here is the precise, line-by-line transcription of the Sanskrit text from the image into clean Devanagari Markdown:

५३८ गोलाध्याये अथ कल्पाधिमासगुणकेन यदि कालकस्तर्हि कल्पावमगुणेन क इति फलेन भाज्येऽन्य- (न्य)वर्णनिरासात्कथं तादृशं नोक्तमिति चेन्न । लब्धाधिमासानां निःशेषतया अलब्धत्वेना- नुपातानीतलब्धेर्युक्तत्वादन्यथा सशेषाधिमासावमैक्यानुपपत्तेः । न चैवमधिमासानां सशेषत्वेऽपि लब्ध्यनुपपातः संभवतीति वाच्यम् । केवलभाज्ये हरभक्ते यच्छेषं तद्गुणितगुणकादधिके हरे शेषोत्था लब्धिर्नैव संभवतीत्यतो लब्ध्यनुपातस्य युक्तत्वेऽपि तन्न्यूनहरे शेषोत्थलब्धिसंभवादनुपातेन लब्ध्यसिद्धेः । प्रकृते च गतचान्द्राणां केवलभाज्यत्वेन तद्गुणितावमानां कल्पचान्द्राधिकत्वसंभवादन्यथा गतावमानुपपत्तेरिति दिक् । अतोऽन्यथा यतितम् । इष्टचान्द्राह्नाः पृथक्कल्पाधिमासावमाभ्यां गुणिताः कल्पचान्द्र- भक्ताः फले गताधिमासावमे । शेषं च तच्छेषे इति । तेषामैक्यं तत्र लाघवादिष्टचान्द्राह्नाः कल्पाधिमासावमयोगेन गुणिताः कल्पचान्द्रभक्ताः फलं फलैक्यं गताधिमासावमयोगरूपं शेषं तच्छेषैक्यम् । अनयोर्योगश्चतुर्णां योग इति । तथा हि—गतचान्द्रप्रमाणं या १ कल्पाधिमासावमयोगेनायुताह्वतशराष्टस(क्ष)सप्त- रसोत्कृत्या गुणितं कल्पचान्द्राह्नभक्तं फलं कालको गताधिमासावमयोगरूपः । का १ एतद्गुणं हरं भाज्यादपनीय शेषं तच्छेषैक्यं या २६६७५८५०००० का १६०२९९९०००० इदं कालकेन फलेन गतगधिमासावमयोगरूपेण युतं जातं सशेषाधिमासावमैक्यम् । या २६६७५८५०००० का १६०२९९८९९९९९९ इदमुद्दिष्टयुतिसममिति पक्षयोः शोधनार्थं न्यासः । या २६६७५८५०००० का १६०२९९८९९९९९९ रु ० । रु १ या ० का ० ननु कथमेतौ पक्षौ समौ । उद्दिष्टयुतौ गताधिमासावमतच्छेषाणामव्यक्तपक्षे च तेषां क्रमेण युतित्वात् युतित्वानियमाच्च । तथा हि—यत्र चान्द्रदिवसेभ्यः पृथगधिमासावमत- च्छेषे आनीते तत्र शेषयोरैक्यं कल्पचान्द्रदिनेभ्य ऊनं यदि स्यात्तदोक्तरीत्या चतुर्णां योगोऽव्यक्तपक्षे सिद्धः स्यात् । यदि तु शेषयोरैक्यं कल्पचान्द्रदिनेभ्योऽधिकं तदोक्तरीत्या गताधिमासावमशेषाणां युतिरव्यक्तपक्षे कथं स्यात् । गुणयोगेन गुणिते हरभक्ते शेषैक्यं हरान्न्यूनं स्यात् । न कल्पचान्द्राधिकम् । फलं गताधिमासावमयोगः सैकः स्यात् । तद्युतिस्तु शेषैक्यं हरतष्टं गताधिमासावमैक्येन युतमित्येतद्रूपा । नह्युद्दिष्टयुतिरेतद्रूपेति पक्षसाम्यं न निश्चितम् । न च प्रश्नयुतिरपि तथैव हरतष्टशेषैक्यग्रहणस्वरूपा कार्येति पक्षसाम्यमविरुद्धमिति वाच्यम् । प्रश्नपद्ये ये चापि, तच्छेषके इत्यनेन शेषैक्यस्य हरतष्टत्वेनाग्रहात् । सैकत्वा- नुक्तेश्च । न चाव्यक्तपक्षे व्येकचन्द्रदिनयोजनोद्दिष्टयुतिसाम्यं स्यादिति वाच्यम् । युति- साम्यार्थं सत्करणप्रसङ्गात् । तादृशयुत्योर्विविक्तज्ञापकाभावाच्चेति चेत् ।