भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 670, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 670

५६८ गोलाध्याये

तस्य गणकस्य चरणकमलं बुधाः, एतदुत्तरकल्पनासमर्थकल्पका बहवः । अनेकप्रकारेण वा । प्रमेयवियति । तदुत्तरविचारणरूपाकाशे भ्रान्ताः । तदुत्तरमार्गाज्ञतया भ्रान्ताः सन्तोऽलिवद्भ्रमरा इवेत्यर्थः । सेवन्ते । उपासनया तदुत्तरं समास्वादयन्तीत्यर्थः । एतेनास्य प्रश्नस्योत्तरसूत्रं न कृतम् । वर्गप्रकृतिविषयत्वेनोत्तरस्य स्वतो ज्ञेयत्वसं- भवादिति सूचितम् । तथाहि—इष्टं ह्रस्वं तस्य वर्गः प्रकृत्या क्षुण्णो युक्तो वर्जितो वा स येन । मूलं दद्यात्क्षेपकं तं धनर्णं मूलं तत्र ज्येष्ठमूलं वदन्तीति वर्गप्रकृतिमूलसूत्रेण प्रथमोदाहरणे इष्टं ह्रस्वं षडेवाधिशेषं ६ । एतद्वर्गाद्दशगुणा ३६० त्सैका ३६१ देकोनविंशतिपदस्य लाभात् । अत्र कनिष्ठज्येष्ठरूपक्षेपे ६ । १९ । वज्राभ्यासो ज्येष्ठलघ

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 670, कुल 723 में से · BharatKosha