सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 678, कुल 723 में से
संदर्भ में पढ़ेंपुरखस्वस्तिकं ध्रुवादज्ञाताक्षांशपुरखस्वस्तिकोपरि नीयमानं वृत्ताकारं सूत्रं यत्र विषुवन्म- ण्डले लगति तदज्ञाताक्षांशपुरखस्वस्तिकयोरन्तरं तस्मिन्पुरे पलांशाः ॥ अथ ज्ञाताक्षांशपुरक्षितिजपूर्वोक्ताहोरात्रवृत्तसंपातावधिज्ञाताक्षपुरपूर्वखस्वस्तिकादग्रा तत्संबन्धाक्रान्तिज्यापूर्वोक्ताहोरात्रवृत्तज्ञाताक्षपुरोन्मण्डलसंपातावधि तत्स्वस्तिकात्सैवा- ज्ञाताक्षपुरेऽक्षज्येति तदहोरात्रवृत्तसंबन्ध्यग्रा तत्क्रान्तिज्यारूपाक्षज्यासाधनार्थं साध्या ॥ तत्र ज्ञाताक्षपुरसममण्डलाज्ज्ञाताक्षपुरखस्वस्तिकयोर्याम्योत्तरान्तरस्य भुजत्वेन तद- ग्राशङ्कुतलसंस्कारत्वाद्विपरीतसंस्कारेण भुजशङ्कुतलाभ्यामग्राऽतः क्षितिजे अज्ञाताक्ष- पुरखस्वस्तिके सति दिग्ज्यैव तदन्तररूपं भुजः ॥ तत्रापसारयोजनलवा नवतिः । क्षिति- जस्य च स्वस्तिकात्परिधिचतुर्थांशान्तरेण सत्त्वादत्तस्त्रिज्यातुल्ययाऽपसारयोजनलवज्यया क इति तदन्तररूपो भुजः । शङ्कुतलं त्वज्ञाताक्षपुरखस्वस्तिकस्थानाज्ज्ञाताक्षपुरक्षितिजसमभूपर्यन्तं लम्बरूपस्य शङ्कुत्वं तस्य चापसारलवकोटिज्यारूपत्वात् द्वादशकोटौ ज्ञाताक्षपुरपल्लवा(लभा)भुजस्तदा कोटिज्यःरूपशङ्कौ क इत्यनुपातेन ॥ अथ सममण्डलाज्ज्ञाताक्षपुरखस्वस्तिकं दक्षिणतस्तदा भुजस्य दक्षिणत्वेन शङ्कु- तलाग्रायोगरूपत्वमग्रोनशङ्कुतलरूपत्वं वेति वैपरीत्येन शङ्कुतलोनभुजोनशंकुतलं याऽग्रा स्यादिति दक्षिणभागे तदन्तरमग्रा । यद्युत्तरतस्तदा भुजस्योत्तरत्वेन शंकुतलोनाग्रारूपत्वा- द्वैपरीत्येन शंकुतलयुक्तो भुजोऽग्रेत्युत्तरभागे तदैक्यमग्रा ॥ भूपरिधिचतुर्थांशो(र्शांशेऽ) धिकान्तरे त्वज्ञाताक्षपुरखस्वस्तिकं ज्ञाताक्षपुराद्दृश्यगोलार्धेऽतो भुजस्य तत्र वैपरीत्या- द्विपरीत शंकुतलस्योत्तरत्वात् । ततोऽग्राया ज्ञातपुराक्षकणेन द्वादशकोटिस्तदाऽग्रया केत्यनुपातेन क्रान्तिज्या अज्ञाताक्षपुराक्षज्यारूपा तस्याश्चापमक्षांशा इत्युपपन्नं दिग्ज्याफलभाक्षुणे इत्यादिग्रार्या- द्वयम् ।। अथ दिग्ज्यापुरद्वयाक्षांशज्ञानेऽपसारयोजनलवज्ञानं यद्देशावधिसंबन्धेन दिग्ज्या तदित- राक्षांज्ज्या दिग्ज्यासंबन्धपुरपलकर्णगुणाद्वादशभक्ताऽग्रा । ततो व्यासार्धवर्गः । पलभाकृतिघ्न इत्यादिना छायकर्णः । अस्माच्छाया । ततश्छायाकर्णे छायाभुजस्तदा त्रिज्याकर्णौ को भुज इति दृग्ज्यापसारयोजनलवज्या ।। एवं नगरद्वयाक्षांशापसारयोजनलवज्ञाने दिग्ज्याज्ञानमवधिस्थपुराक्षकणेनेतरपराक्षज्या गुण्या द्वादशभक्ता फलपग्रा । द्वादशकोटौ पलभा भुजस्तदाऽपसारयोजनलवकोटिज्यारूप- शङ्कौ क इति शङ्कुतलयोः संस्कारे भुजः । अपसारयोजनलवज्यातुल्यदृग्ज्ययाऽयं भुज- स्तदा त्रिज्या तुल्यया किमिति दिग्ज्येत्यादिकल्पनं सुगमतरं वैपरीत्येन । अथ पूर्वोदाहरणेषु भुजकोटिफलयोरन्तरयोगयोश्च न प्रतीविरित्युदाहरणान्तरप्रश्नं भूमेर्व्यस्त पादाधिकेऽपसारे इत्यस्योदाहरणप्रश्नं च मालिन्याऽऽह-क्षितिजपरिधीति ।