सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 682, कुल 723 में से
संदर्भ में पढ़ें५८० गोलाध्याये मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे काले पञ्चघटीमिते दिनगते यद्वा नते तावति केनाप्युज्जयिनीगतेन तरणेः क्रान्तिं तदा वेत्सि चे- न्मन्ये त्वां निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्कुशम् ॥४०॥ मार्तण्डे सममण्डलं प्रविशतिच्छाया किलाष्टचङ्गुला दृष्टाष्टासु घटोषु कुत्रचिदपि स्थाने कदाचिद्दिने । अर्कक्रान्तिगुणं तदा वदसि चेदक्षप्रभां तत्र च त्रिप्रश्नप्रचुरप्रपञ्चचतुरं मन्ये त्वदन्यं नहि ॥४१॥ यत्र क्षितिज्या शरसिद्ध २४५ तुल्या स्यात् तद्धृतिस्तत्त्वकुराम- संख्या ३१२४ । तत्राक्षभाकौ गणक प्रचक्ष्व चेदक्षक्षेत्रविचक्षणोऽसि ॥४२॥ क्रान्तिज्यासमाशङ्कुतद्धृतियुतिं कुज्यौनितां वीक्ष्य यो विंशत्यश्वरसै ६७२० मितामथ परां षष्ट्यङ्कचन्द्रै१९६०मिताम् । कुज्याग्रामपमशिञ्जिनीयुतिमिनं वेत्त्यक्षभां चापि तं ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम् ॥४३॥ क्रान्तिज्यासमाशङ्कुतद्धृतियुतिं कुज्यौनितां वीक्ष्य यः पूर्णाब्ध्यब्धिमहीमिता१४४०मथ परां खाभ्राष्टभू१८०० संमिताम् । अग्राज्यापमशङ्कुतद्धृतियुतिं वेत्त्यक्षभाकौ च तं ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम् ॥४४॥ यत्र त्रिवर्गेण ९ मिता पलाभा तत्र त्रिनाडीप्रमितं चरं स्यात् । यदा तदार्कं यदि वेत्सि विद्वन् सांवत्सराणां प्रवरोऽसि नूनम् ॥४५॥ याम्योदक्समकोणभाः किल कृताः पूर्वैः पृथक्साधनै- र्यास्तद्दिग्विवरान्तरान्तरगता याः पृच्छकेच्छावशात् । ता एकानयनेन चानयति यो मन्ये तमन्यं भुवि ज्योतिर्विद्वदनारविन्दमुकुलप्रोल्लासने भास्करम् ॥४६॥