स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)
Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary
आचार्य वसुगुप्त / क्षेमराज द्वारा
पृष्ठ 257, कुल 519 में से
संदर्भ में पढ़ें१५६ स्पन्दकारिका १) अन्नमय कोश २) प्राणमय कोश ३) मनोमय कोश ४) विज्ञानमय कोश ५) आनन्दमय कोश । मलों के तीन प्रकार आत्मा के स्वातन्त्र्य के आच्छादक है। 'मल' क्या है? मल—(१) अज्ञानं किल बन्धहेतुरुदितः शास्त्रे मलं स्मृतम् ।¹ (२) मलमज्ञानमिच्छन्ति संसारांकुर कारणम् ।² (३) योग्यतामात्रमेवैतत् भावव्यच्छेद संग्रहे । मलस्तेनास्य न पृथक् तत्त्वभावोऽस्ति रागवत् ॥³ (४) स्वात्मप्रच्छादनक्रीडामात्रमेव मलं विदुः ॥⁴ (क) आणवमल = १) 'संकोच एवं पुंसामाणवमलमित्युक्तप्रायम् ।'⁵ २) स्वातन्त्रहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवमलमिदं स्वस्वरूपापहानितः ॥⁶ संविद्रूपे न भेदाऽस्ति वास्तवो यद्यपि ध्रुवे । तथाप्यावृति निर्ह्रास तारतम्यात् स लक्ष्यते ॥ (ख) मायीय मल— १) भिन्नवेद्य प्रथात्रैव मायाख्यं जन्मभोगदम् ॥⁷ २) शरीरभुवनाकारो मायीयः परिकीर्तितः ॥⁸ (ग) कार्ममल— देवादीनां च सर्वेषां भाविनां त्रिविधं मलम् ।'⁹ तथापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ १) अप्रतिहतस्वातन्त्र्यरूप इच्छाशक्तिः संकुचिता सती अपूर्णाम्मन्यतारूपम् 'आणवमलम्' ।१० २) ज्ञानशक्तिकमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्व प्राप्तेः वेद्यप्रथारूपं 'मायीयं मलम्'११ ३) क्रियाशक्तिकमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूप संकोच- ग्रहणपूर्वकम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्म मलम् ।१२ क) स्वातन्त्र्य हानिरूप आणव मल—'विज्ञान केवल' में । १. तन्त्रसार (आ०-१ पृ०-५) । २. तन्त्रालोक (६। पृ०५७) । ३. तन्त्रालोक (६। पृ० ५७) । ४. मालिनीविजय वार्तिक काण्ड २।१८६) । ५. स्वच्छन्दतन्त्र टीका पृ० ५१९ । ६. ईश्वरप्रत्यभिज्ञाकारिका (भास्करी: २ पृ० २४८) । ७. ईश्वरप्रत्यभिज्ञाकारिका भास्करी । ८. तन्त्रालोक (१।५६) । ९. ईश्वरप्रत्यभिज्ञाकारिका ३-२-१० (भास्करी २ पृ० २५३) १०. प्रत्यभिज्ञाहृदयम् । ११. प्रत्यभिज्ञाहृदयम् । १२. प्रत्यभिज्ञाहृदयम् ।