भारतकोश
स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary

आचार्य वसुगुप्त / क्षेमराज द्वारा

DevanagariHindipublished519 पृष्ठ

पृष्ठ 257, कुल 519 में से

संदर्भ में पढ़ें
पृष्ठ 257

१५६ स्पन्दकारिका १) अन्नमय कोश २) प्राणमय कोश ३) मनोमय कोश ४) विज्ञानमय कोश ५) आनन्दमय कोश । मलों के तीन प्रकार आत्मा के स्वातन्त्र्य के आच्छादक है। 'मल' क्या है? मल—(१) अज्ञानं किल बन्धहेतुरुदितः शास्त्रे मलं स्मृतम् ।¹ (२) मलमज्ञानमिच्छन्ति संसारांकुर कारणम् ।² (३) योग्यतामात्रमेवैतत् भावव्यच्छेद संग्रहे । मलस्तेनास्य न पृथक् तत्त्वभावोऽस्ति रागवत् ॥³ (४) स्वात्मप्रच्छादनक्रीडामात्रमेव मलं विदुः ॥⁴ (क) आणवमल = १) 'संकोच एवं पुंसामाणवमलमित्युक्तप्रायम् ।'⁵ २) स्वातन्त्रहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवमलमिदं स्वस्वरूपापहानितः ॥⁶ संविद्रूपे न भेदाऽस्ति वास्तवो यद्यपि ध्रुवे । तथाप्यावृति निर्ह्रास तारतम्यात् स लक्ष्यते ॥ (ख) मायीय मल— १) भिन्नवेद्य प्रथात्रैव मायाख्यं जन्मभोगदम् ॥⁷ २) शरीरभुवनाकारो मायीयः परिकीर्तितः ॥⁸ (ग) कार्ममल— देवादीनां च सर्वेषां भाविनां त्रिविधं मलम् ।'⁹ तथापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ १) अप्रतिहतस्वातन्त्र्यरूप इच्छाशक्तिः संकुचिता सती अपूर्णाम्मन्यतारूपम् 'आणवमलम्' ।१० २) ज्ञानशक्तिकमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्व प्राप्तेः वेद्यप्रथारूपं 'मायीयं मलम्'११ ३) क्रियाशक्तिकमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियरूप संकोच- ग्रहणपूर्वकम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्म मलम् ।१२ क) स्वातन्त्र्य हानिरूप आणव मल—'विज्ञान केवल' में । १. तन्त्रसार (आ०-१ पृ०-५) । २. तन्त्रालोक (६। पृ०५७) । ३. तन्त्रालोक (६। पृ० ५७) । ४. मालिनीविजय वार्तिक काण्ड २।१८६) । ५. स्वच्छन्दतन्त्र टीका पृ० ५१९ । ६. ईश्वरप्रत्यभिज्ञाकारिका (भास्करी: २ पृ० २४८) । ७. ईश्वरप्रत्यभिज्ञाकारिका भास्करी । ८. तन्त्रालोक (१।५६) । ९. ईश्वरप्रत्यभिज्ञाकारिका ३-२-१० (भास्करी २ पृ० २५३) १०. प्रत्यभिज्ञाहृदयम् । ११. प्रत्यभिज्ञाहृदयम् । १२. प्रत्यभिज्ञाहृदयम् ।