श्रीमद्भगवद्गीतारहस्य अथवा कर्मयोगशास्त्र (लोकमान्य बाल गंगाधर तिलक)

श्रीमद्भगवद्गीतारहस्य अथवा कर्मयोगशास्त्र (लोकमान्य बाल गंगाधर तिलक)
Srimad Bhagavad Gita Rahasya by Bal Gangadhar Tilak
लोकमान्य बाल गंगाधर तिलक द्वारा
DevanagariHindipublished956 पृष्ठ
पृष्ठ 6, कुल 956 में से
संदर्भ में पढ़ेंपृष्ठ 6
। अथ समर्पणम् । श्रीगीतार्थः क गंभीरः व्याख्यातः कविभिः पुरा । आचार्यैर्यश्च बहुधा क मेऽल्पांधिषया मतिः ॥ तथापि चापलादस्मि वक्तुं तं पुनरुद्यतः । शास्त्रार्थान् संमुखीकृत्य प्रयत्नान् नव्यैः सहोचितैः ॥ तमार्याः श्रोतुमर्हन्ति कार्याकार्य-दिदृक्षवः । एवं विज्ञाप्य सुजनान् कालिदासाक्षरैः प्रियैः ॥ बालो गंगाधरश्चाऽहं तिलकान्वयजो द्विजः । महाराष्ट्रे पुण्यपुरे वसन् शांडिल्यगोत्रभृत् ॥ शाके मुन्यग्निवसुभू-संमिते शालिवाहने । अनुसृत्य सतां मार्गं स्मरंश्चापि वचो* हरेः ॥ समर्पये ग्रंथमिमं श्रीशाय जनतात्मने । अनेन प्रीयतां देवो भगवान् पुरुषः परः ॥ * यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौंतेय तत्कुरुष्व मदर्पणम् ॥ — गीता ९.२७