सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 389, कुल 516 में से
संदर्भ में पढ़ें| ३७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
वैसन मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कोल-
वृको हन्ति पुरुषमजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य-
तीतं बुधा यतध्वं परमार्थसिद्धयै । आयुर्गतप्रायमिदं यतोऽसौ
विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः
सगरः ककुत्स्थो दशाननो राघवक्ष्मणौ च । युधिष्ठिरा-
द्याश्च बभूवुरेत सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥
आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह
प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो
जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि-
दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र
नैकोऽपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्रावि-
वाँक्षौ कालः काल्या भुवनफलके क्रीडति प्राणिसारैः
॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं
च तत्पार्श्वे तस्य च सा विदिग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्वं
यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २०० ॥
कश्चित्कल्पशतं कृतस्थितिरथान्यः कश्चिद्युगानां शतं काश्चि-
द्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् । तांस्तान्कर्मभि-
रात्मनः प्रतिदिनं सक्षीयमाणायुषः कालोऽय कवली-
करोति सकलान्भ्रातः कुतः कौशलम् ॥ २०१ ॥ कालेन
क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रया-
न्ति विलयं विद्धो विचारादिति । पश्यामोऽपि विनश्यतो-
ऽनवरतं लोकाननेकान्सुधा माया मोहमयी भवप्रणयिनी
नास्थां जहीमो वयम् ॥ २०२ ॥ व्योमैकान्तविहारिणोऽपि
विहँगोः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः
समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे
गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि
॥ २०३ ॥ मान्धाता स महीपतिः क्षितितलेऽलङ्कारभूतो
गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि
समं गता वसुमती मुञ्च त्वया यास्यति ॥ २०४ ॥
पश्चात्तापः
जन्मैव व्यर्थता नीतं भवभोगप्रलोभिना । काचमूल्येन
विक्रीतो हँन्त चिन्तामणिर्मया ॥ २०५ ॥
तरत्तरलतृष्णेन किमिवास्मिन्धरातले । मया न कृतमज्ञेन
पश्चात्तापाभिवृद्धये ॥ २०६ ॥ यात यौवनमधुना
वनमधुना शरणमेकमस्माकम् । स्फुरदुरुहारमणीनां हा
रमणीनां गतः कालः ॥ २०७ ॥ धनवानिति हि मदो मे
किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः
पातोत्पाता मनुष्याणाम् ॥ २०८ ॥ भोगा न भुक्ता वयमेव
भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव
यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २०९ ॥ पुनः
प्रभात पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यतो रविः । कालस्य
किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते
॥ २१० ॥ न चाराधि राधाधवो माधवो वा न वाऽपूजि
पुष्पादिमिश्रन्द्रचूडः । परेषां धने धन्धने नीतकालो दयालो
यमालोकने कः प्रकारः ॥ २११ ॥ न चाकारि कामारि-
कंसारिसेवा न वा स्वेष्टमाचेष्टितं हन्त किंचित् । मनः प्रेयसी-
रूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम्
॥ २१२ ॥ चित्ते भूवित्तभूमत्तभूपालकोपासनावासनायास-
नानाभ्रमैः । साधुता सा धुता संविता साधिता किं तया
चिन्तया चिन्तयाम शिवम् ॥ २१३ ॥ अजानन्दाहार्ति
पतति शलभोस्तीव्रदहने न मीनोऽपि ज्ञात्वा बडिशयुत-
मश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जाल-
जटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २१४॥
चिरं ध्याता राँमा क्षणमपि न रॉमप्रतिकृतिः परं पीतं
रामाधरमधु न रोमाङ्घ्रिसलिलम् । नता रुष्टा रामा यदरचि
न रामाय विर्नतिर्गतं मे जन्माद्य न दशरथजन्मा परिगतः
॥ २१५ ॥ कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं
कृताः पर मुरोजयो परिसरेऽरविन्दश्रियः । स्तुतिर्नतिरपि
स्मृतिर्विरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं
पुनर्नैश्वरे ॥ २१६ ॥ नाभ्यस्ता भुवि वादवृन्ददमनी
विद्या विनीतोचिता खङ्गाग्रैः करिकुम्भपीठदलनैर्नाकं न
नीत यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २१७ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाट-
पाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्ने-
ऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुँठारा वयम्
॥ २१८ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतो-
षतः सोढा दुःसहशीतवाततपनक्लेशा न तप्त तपः । ध्यातं
वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं तत्तत्कर्म कृतं
यदेव मुनिभिस्तैस्तै फलैर्वञ्चितम् ॥ २१९ ॥ धन्याना
गिरिकन्दरे निवसता ज्योतिः परं ध्यायतामानन्दाश्रुजल
टिप्पणी:
१ वसनम् २ काल एव वृक ३ पुरुष एवाज ४ पाशौ ५ भुवनमेव फलकमारीपटस्तस्मिन् ६ प्राणिन एव सारास्तै ७ भाण्ड लिरूपमण्डलम् ८ चतुरसभा ९ स्तुतिपाठका १० केवलमाकाशसचारिण ११ पक्षिण १२ विपत्तिम् १३ कुशले १४ निष्फलत्वम् १५ हन्तेति खेदे १६ रत्नविशेष
१ चित्तभू कामः, वित्तभूमद ताभ्या मन्तो यो भूपालकस्तस्योपासनं, या वासना तया जायास्सन्ततो ये नाना भ्रमास्तै २ आधिसहितत्वम् ३ स्त्री ४ राममूर्ति ५ रामपादोदकम् ६ नमस्कार ७ दशरथाज्जन्म यस्य स राम ८ स्वर्गम् ९ छेदनाय १० परश्वधा