सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 46, कुल 516 में से
संदर्भ में पढ़ेंकाव्यप्रशंसा ३१
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टप वा समं विद्म. ॥ २२ ॥
सत्कविरमनाशी-र्निंस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ २३ ॥
काव्यस्याक्षरमैत्रीर्भाजो न च कर्कशा न च ग्रन्थ्याः । शब्दा अपि पुरुषा अपि सौध एवार्थबोधाय ॥ २४ ॥
अन्तर्गूढानिधानव्यञ्जयतः प्रसद्-रहितस्य । सधर्मस्य नदस्य च न रसैः प्रीत्यै रसज्ञानाम् ॥ २५ ॥
आन्तरमिव बहिरिव हि व्यञ्जयितु रसमशेषत. सततम् । असती सत्कविसूक्तिः काचघटीति त्रय वेद ॥ २६ ॥
न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेय कविता कवीनाम् । लोकोत्तरे पुसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥ २७ ॥
अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रम-जन्मभूमिः । वैदर्भरीति. कृतिनामुदेति सौभाग्यलाभप्रति-भूः पदानाम् ॥ २८ ॥
सहोदरा. कुङ्कुमकेसराणा भवन्ति नून कविताविलासा । न शारदादेशमपास्य दृष्टस्तेषा यद-न्यत्र मया प्ररोहः ॥ २९ ॥
नमो नम. काव्यरसाय तस्मै निषिक्तमन्त. पृषतापि यस्य । सुवर्णता वक्रमुपैति सार्थोर्द्ध-वर्णता याति च दुर्जनस्य ॥३०॥
अर्थो गिरमपिहित पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाम । नान्ध्रीपयोधर इवा-तितरा प्रकाशो नो गुर्जरोस्तन इवातितरा निगूढः ॥ ३१ ॥
रे रे खला. शृणुत मद्वचन समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः । कुर्मस्तदत्र भवतामुपकारकारि काव्यामृत पिबत तत्परमादरेण ॥ ३२ ॥
वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायंतनेषु मकरन्दवतीषु भृङ्गाः कि मल्लिकासु परैमन्त्रणमारभन्ते ॥ ३३ ॥
आख्यातनामवचनाचतुरस्रसन्धिसद्भावललितगुण सरस सुवृत्तम् । आसेदुषामपि दिं कविपुङ्गवाना तिष्ठत्य-खण्डमिह काव्यमय शरीरम् ॥ ३४ ॥
सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसा नेतुं नेहामहे श्रवणान्तिकम् । मृगमदरस बिम्बोष्ठीना कठोरकुचोचितं जघननकटे क्लिन्ने लिम्पेज्जन्महिषस्य क ॥ ३५॥
अमृतजलधे. पाय पाय पयासि पयोधर. किरति करकास्ताराकारा यदि स्फटिकावना । तदिह तुलनामानीयन्ते क्षण कठिना पुन सततममृतस्यन्दोद्वारा गिर प्रैतिभावताम् ॥३६॥
प्रयच्छति चमत्कृति विरचनाविधौ चेतस. सभासु पठितो भवत्यसमसाधुवादासये । प्रथामुप-गतस्तनोत्यतितरामुदार यशो न पुष्यति मनोरथ कमिव काव्यचिन्तामणि. ॥ ३७ ॥
समुल्लसति वाचा सरसमधु-निष्यन्दलहरी समुन्मेषद्रेषी सकलरसपोषोपजनकः। न केषा-माधत्ते मनसि परितोष नवनवैर्विलासैरून्मीलद्विकचितमधूली-परिमलः ॥ ३८ ॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त.करणहरण नैव कुरुते । मदुक्तिश्चेदन्तर्मद्-यति सुधीभूय सुधिया किमस्या नाम स्यादरसपुरुषा-नादरभरै. ॥ ३९ ॥
परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसा कदाचिच्याभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ ४० ॥
प्रैसत्तेयः पात्र तिलकयति यं सूक्तिरचना य आद्यः स्वादूना श्रुतिचुलुकलेहेन मधुना । यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीना कविबृषनिशेव्यो विजयते ॥ ४१ ॥
सदा मध्ये यासामियमृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गी परिमलम् । प्रसाद ता एता धनपरिचिताः केन महता महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुच्यः ॥ ४२ ॥
नव व्याकरणङ्गमेति पितरं न भ्रातर नार्किर्कं दूरात्सकुचि-तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नपुसकमिति ज्ञात्वा निगस्त्यादरा काव्यालकरणङ्गमयेत्य कविता-कान्ता वृणीते स्वयम् ॥ ४३ ॥
रम्यार्थोक्तिनतूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जरीतिवृत्ति कवितापाकं वयो बिभ्रती । भावालकरणोचितागमवती सर्वत्र निर्दोष-ताशय्यार्मेङ्क्षति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ ४४ ॥
निर्ह्रादं क्रकचक्षतै. किरति किं कर्णामृतं वल्लकी कि वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं तारसर्कर्काशा धियमसौ जल्पोर्विकाल्याकुलैराकूटं कमनीय-कान्तिदमिरंतं कार्य कथ स्पन्दते ॥ ४५ ॥
यन्नाकृष्टसुवर्ण-सूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः । यत्राप्युल्लसदशुकान्तरलसत्कान्ता-कुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ ४६ ॥
गुम्फ. पङ्कजकुड्मलद्युतिरुरस्तत्केसरोल्लासवानर्थो-ऽप्यन्तरसौरभप्रतितिभ व्यङ्ग्य चमत्कारि यत् । द्वित्रैर्यद्रसिकै-
पाद-टिप्पणी (Footnotes)
| पाद-टिप्पणी (१–१९) | पाद-टिप्पणी |
|---|---|
| १ सहृदयभिन्नानाम्; पक्षे,-पापवताम | १ विदुषाम् |
| २ अमृततुल्यम्, पक्षे,-अमृतबहुलम्. | २ मुरवल्ली |
| ३ शोभनाक्षराणा विन्यासो ग्रथन यत्र, पक्षे-सुवर्णमयम् | ३ आनन्दस्य |
| ४ शोभनरसार्थप्रचुरम्, पक्षे,-देवसमूहबहुलम् | ४ गच्छति. |
| ५ प्रस्फोटनम् | |
| ६ निर्दोष | |
| ७ निर्दोषकव्यास्वादेनेत्यर्थ | |
| ८ एकवर्गघटितत्वादिरूपा | |
| ९ श्रुतिकटुक, पक्षे,-क्रूरतया | |
| १० अविंदग्धप्रयुक्ता , पक्षे,-ग्राममात्रवासिन | |
| ११ व्याकरणसिद्धा , पक्षे,-निर्मलमतय.. | |
| १२ अभ्यन्तरे गूढस्थितान्, पक्षे,-अभ्यन्तरे निलीनान् | |
| १३ प्रतिपाद्यविषयान्, पक्षे,-पदार्थान् | |
| १४ व्यञ्जनाविधयानकुर्वतः; पक्षे,-अप्रकटयत . | |
| १५ प्रसादेन काव्यगुणेन रहितस्य, पक्षे,-निर्मलतया रहितस्य | |
| १६ काव्यस्य | |
| १७ शृङ्गारादि., पक्षे,-जलम्. | |
| १८ काश्मीरदेशम्. | |
| १९ अन्येषामभिमतम्; अन्यै सह विचारविनिमयो वा. |