सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 95, कुल 516 में से
संदर्भ में पढ़ें| ८० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
गाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ १५ ॥ न
क्वचिच्च बहिर्यान्ति मानिनां प्रार्थनागिरः । यदि निर्यातुमि-
च्छन्ति तदा प्राणपुरःसराः ॥ १६ ॥ असेवितेश्वरद्वारमदृष्ट-
विरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम्
॥ १७ ॥ मानिनो हतमानस्य मानोऽपि न सुखप्रदः ।
जीवन्न मानमूलं हि माने म्लाने कुतः सुखम् ॥ १८ ॥
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि
निर्वाणमायाति नानलो याति शीतताम् ॥ १९ ॥ मनस्वि-
हृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना मुकुरः प्रायः प्रसादं
लभतेतराम् ॥ २० ॥ मनस्विनो न मन्यन्ते परतः
प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि
कोकिलाः ॥ २१ ॥ दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति सुखानि यत् ॥ २२ ॥
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अर्थैरयत्नसुलभै-
र्जलदर्भाङ्कुरादिभिः ॥ २३ ॥ उपकारेण दूयन्ते न सहन्तेऽनु-
कम्पिताम् । आपत्स्वपि दुराराध्या नित्यदुःखा मन-
स्विनः ॥ २४ ॥ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
भव्यो हि द्रव्यतामेति क्रिया प्राप्य तथाविधाम् ॥ २५ ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु
सत्त्वानामवमानात्परं भयम् ॥ २६ ॥ न सदश्वाः कशाघातं
न सिंहा घनगर्जितम् । परैरङ्गुलिनिर्दिष्टं न सहन्ते
मनस्विनः ॥ २७ ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्य-
यत्नसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो
वयं सुधियः ॥ २८ ॥ १प्रत्युपकुर्वन्बह्वपि न भवति पूर्वो-
पकारिणा तुल्यः । एकोऽनेकं२करोति कृतं निष्कारणमेव
कुरुतेऽन्यः ॥ २९ ॥ न नटा न विटा न गायका न परद्रोह-
निबद्धबुद्धयः । नृपसद्मनि नाम के वयं स्तनभारानमिता
न योषितः ॥ ३० ॥ अभिमानधनस्य गत्वरैरसुभिः स्यान्नु
यशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः
फलमानुषङ्गिकम् ॥ ३१ ॥ ज्वलितं न हिरण्यरेतसं चय-
मास्कन्दति भस्मना जनः । अभिभूतिभयादसूनतः सुख-
मुज्झन्ति न धाम मानिनः ॥ ३२ ॥ पुरो वा पश्चाद्वा
वयमुपविशामः क्षितिभुजा ततः किं नश्छिन्नं वचनरचना-
क्रीतजगताम् । अगारे कान्तारे कुचकलशभारे मृगदृशां
मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमतः ॥ ३३ ॥ अमुक्तैकस्या
यस्याः क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव
बहुमानः क्षितिभुजाम् । तदंशस्याप्यंशे तदवयवलेशेऽपि
पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ३४ ॥
क्वचिद्भूभौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाका-
हारी क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी
क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति
दुःखं न च सुखम् ॥ ३५ ॥ स जातः कोऽप्यासीन्मदन-
रिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः
पुंसामयमतुलदर्पज्वरभरः ॥ ३६ ॥ विपुलहृदयैर्यत्नैः
कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं
यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपय-
पुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३७ ॥ वरमहि१मुखे
क्रोधाध्माते२ करो विनिवेशितो विषमपि वरं पीत्वा सुप्तं
कृतान्तनिवेशने३ । गिरिवरतटान्मुक्तश्चात्मा वरं शतधा
कृतो न तु खलजनावासैरर्थैः कृतं हितमात्मनः ॥ ३८ ॥
नानीयन्ते मधुनि मधुपैः पारिजातप्ररोहैर्नाम्यर्थ्यन्ते तुहिन-
रुचिना चन्द्रिकायाश्चकोराः । असद्वाचां धुरि मधुरिमा
यद्यपूर्वावतारः सोल्लासाः स्युः स्वयमिह बुधाः किं सुधाम्यर्थ-
नाभिः ॥ ३९ ॥ मृत्पिण्डो जलरेखया वलयितः सर्वो-
ऽप्ययं नन्वणूनाङ्गीकृत्य स एव सयुगशतै राज्ञां गणैर्भुज्यते ।
तद्दद्युर्ददतेऽथवा न किमपि क्षुद्रा दरिद्रा भृशं धिग्धिकता-
न्पुरुषाधमान् धनकणं वाञ्छन्ति तेभ्योऽपि ये ॥ ४० ॥
त्वं चेन्नीचजनानुरागमरसादस्मासु मन्दादरः का नो मानद
मानहानिरियती भूः किं त्वदेकप्रभूः । गुञ्जापुञ्जपरम्परा-
परिचयाद्भिल्लीजनैरूज्झितं मुक्तादाम न धारयन्ति किमहो
कण्ठे कुरङ्गीदृशः ॥ ४१ ॥ त्वं राजा वयमप्युपासितगुरु-
प्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु
प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ४२ ॥
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे तत्राप्ये-
कतरं तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यशतो-
पनीतविभवा दृष्टानुकम्पास्तु ते धिङ्मूढाः स्पृहयन्ति हन्त
किमपि स्वार्थेन तेभ्योऽपि ये ॥ ४३ ॥ पातालात्र विमो-
चितो बत बलिर्नीतो न मृत्युं क्षयं नोन्मृष्टं शशलाञ्छनस्य
मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य
न कृतो भारावतारः क्षणं चेतः सत्पुरुषाभिमानमनिशं
मिथ्या वहन्खिद्यसे ॥ ४४ ॥ नास्माकं शिबिका न चास्ति
कटकाद्यालक्रियासत्क्रिया नोत्तुङ्गास्तुरगो न कश्चिदनुगो
नाप्यम्बरं सुन्दरम् । किं तु क्ष्मातलवर्त्यशेषविदुषां साहित्य-
विद्याजुषां चेतस्तोषकरी शिरोनतिकरी विद्याऽनवद्यास्ति
पादटिप्पण्यः (Footnotes):
१ प्रत्युपकारं कुर्वन्
२ अनुकरणं करोति
१ सर्पमुखे
२ क्रोधपूर्णे
३ यमगृहे.