भारतकोश
सुर्जन चरित महाकाव्यम् (कवि चन्द्रशेखर - बूँदी हाड़ा चौहान राजवंश शौर्य इतिहास सटीक)

सुर्जन चरित महाकाव्यम् (कवि चन्द्रशेखर - बूँदी हाड़ा चौहान राजवंश शौर्य इतिहास सटीक)

Surjana Charita Mahakavya of Chandrashekhara with Commentary

कवि चन्द्रशेखर (सम्पादक: डॉ. चन्द्रधर शर्मा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 3, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 3

श्रीः

प्रस्तावना

अद्य किलेदं सुर्जनचरिताख्यं महाकाव्यमुपादाय सहृदयानुपतिष्ठमानस्य मम मनसि अत्येव महान् प्रमोदः । अस्य हि महाकाव्यस्य आदर्शपुस्तकं मया पूर्वपितामहसञ्चिते स्वकीये पुस्तका- लय एवोपलब्धम् । लिपिरप्यस्य मम पितामहचरणानामेव हस्ताङ्किता । पुस्तकस्यान्ते पङ्क्ति- रियं दृश्यते—'लिखितमिदं परिशोधनपुरःसरं बुन्दीनगरीस्थपुरोहितोपनामकहरिणा' इति । एते श्रीहरिशास्त्रिमहाभागा मम पितामहचरणा एव आसन् । अन्यत्र तु बहुत्राऽन्विष्याऽपि मया द्वितीया प्रतिलिपिः कुत्रापि नासादिता । इदं संभाव्यते यत् सुर्जनमहाराजस्य पुत्रेण भोजमहा- राजेन विलेख्य बहूनि पुस्तकानि तत्तेभ्यः पण्डितेभ्यो वितीर्णानि स्युः तत्प्रसङ्गेनैव राजपुरोहितै- रस्मत्पूर्वजैरपि पुस्तकमेकं प्राप्तं तदेव सुरक्षितं पितामहचरणैः प्राप्तमस्य काव्यस्य गुणगणलुब्धै- श्च तैरस्य प्रकाशनार्थं संशोधिता प्रतिलिपिः कृता, परं प्रकाशनायावसरो न लब्ध इति तथैव तत्पुस्तकं स्थितम् । अन्यत्राप्येवंविधाः प्रतिलिपयः संभाव्यन्ते परं ताः कथं विलुप्ता कुत्र वा गता इति नेदं विज्ञायते । आश्चर्यमेतत् यद् बुन्दीराजपुस्तकालये कोटाराजपुस्तकालयेऽपि च नैकाऽपि प्रतिः काव्यस्यास्य समुपलभ्यते । कालविपर्ययेणैव तत्तेषां ग्रन्थरत्नानां विलोपोऽभूदिति किमन्यदत्र वक्तुं शक्यम् । इदं हि काव्यं महाकाव्यस्य सर्वैरपि लक्षणैः परिपूर्णम् । प्रौढाऽस्य वर्णनशैली समुच्छलंश्च प्रसादगुणः पाठकैर्विद्वन्महाभागैः सप्रमोदमालोक्येत । अस्य निर्माता गौडीयाम्बष्ठजातीयो जिता- मित्रपुत्रश्चन्द्रशेखरमहाकविरिति तेन स्वपरिचयो ग्रन्थान्ते निवेशित एव । सुर्जनमहाराजस्याऽयं संस्थानपण्डितस्तदाज्ञयैव च काव्यं विरचयाञ्चकारेति तत्समानकालिकत्वं सुस्पष्टमेव । सम्रा- जाऽकबरेण सह सुर्जनमहाराजस्य संग्रामः १६२६ वैक्रमाब्दे (१५६९ ई०) संघटित इति बुन्दीरा- ज्येतिहासात् स्पष्टं विज्ञायते । तदुत्तरमेव काव्यस्यास्य रचना बभूव । सुर्जनमहाराजपुत्रस्य भोजस्य राज्याभिषेकादिकं तदुत्तरं राज्यशासनं चाप्यत्र वर्णितमिति सप्तदश्या वैक्रमशताब्दया द्विती- यपादेऽस्य समाप्तिः संभाव्यते । सुर्जनमहाराजं वर्णयता कविना तत्पूर्वजानां केषाञ्चित् चौहानवंशी- यानां महाराजानां वर्णनमत्र सम्यगुपनिबद्धमन्येषाञ्च तद्वंश्यानां संक्षेपतः नामैव गृहीतम् । वर्णनमिदं सर्वथैतिहासिकमिति न शक्यते वक्तुमन्येष्वितिहासग्रन्थेषु यादृश उपलभ्यते इति- हासस्तदपेक्षयात्र विलक्षणतेति ऐतिहासिकीनां त्रुटीनां विवरणं हिन्दीभाषाभूमिकायां मया सम्यगुपदर्शितम् यावच्च तत्रैतिहासिकं सामञ्जस्यं तदपि तत्र विवृतम् । तस्मात् ऐति- हासिकीं पृष्ठभूमिकमवलम्ब्य काव्यशैल्या ग्रन्थोऽयं संदृब्ध इति स्फुटीभवति । अजयपालराजस्य जलं प्रविश्य पाताललोकगमनं शेषदर्शनं तत्रैव नागकन्यया विवाहश्चेत्याद्याः बहवो विषयाः कविकल्पनाप्रसूता एव । राजवंशेऽपि च केषांचिद्राज्ञां नामपरित्यागः क्वचिच्च नामान्यथात्वं दृश्यते । तदेवंविधैतिहासिकत्रुटिसत्त्वेऽपि काव्यमिदं मनोरममित्यावर्जयति सहृदयानां चेतः । महाकवेरस्य कविकुलगुरोः कालिदासस्य रघुवंश एव अनुकरणीयोऽभूदिति एतद्रचनया सुस्पष्टं प्रतीयते । प्रसादं माधुर्यमुपमाश्च कालिदासस्याऽयमनुकरोति, कल्पनाप्रौढिञ्च बहुत्र श्रीहर्षङ्गोपजीवति, यमकादिनिवेशने वर्णनशैल्याञ्च भारविमाघावपि न परित्यजति ।

सुर्जन चरित महाकाव्यम् (कवि चन्द्रशेखर - बूँदी हाड़ा चौहान राजवंश शौर्य इतिहास सटीक) · पृष्ठ 3, कुल 256 में से · BharatKosha