स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 109, कुल 204 में से
संदर्भ में पढ़ें२ स्वप्नवासवदत्ते भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥ (निष्क्रान्तः) स्थापना । (प्रविश्य) भटौ — (क) उस्सरह उस्सरह अय्या ! उस्सरह । (ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः आवन्तिकावेषधारिणी वासवदत्ता च) यौगन्धरायणः — (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः, धीरस्याश्रमसंश्रितस्य वसतःस्तुष्टस्य वन्यैः फलै- र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते । उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥ वासवदत्ता — (ख) अय्य ! को एसो उस्सारेदि । यौगन्धरायणः — योऽधर्मो(द्)दामात्मानमुत्सारयति । वासवदत्ता — (ग) अय्य ! ण हि ५ एव्वं वत्तुकामा, अहं वि णाम ६ उस्सारइदव्वा होमि त्ति । (क) उत्सरतोत्सरतार्याः ! उत्सरत । (ख) आर्य ! क एष उत्सारयति । (ग) आर्य ! न ह्येवं वक्तुकामा, अहमपि नामोत्सारयितव्या भवामीति । १. 'ततः प्रविशतः साधारणौ' ख. पाठः. २. 'साधारणौ — उ' ख. पाठः. ३. 'सो' ग. पाठः. ४. 'त्युत्सुको ॥' ख. पाठः. ५. 'हु' ख. पाठः. ६. 'दाव उ' ख. पाठः.