स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 115, कुल 204 में से
संदर्भ में पढ़ेंस्वप्नवासवदत्ते वासवदत्ता — (आत्मगतम्) (क) हं १ इह मं णिक्खिविदुकामो अय्ययोगन्धरायणो । होदु, अविआरिअ कमं ण करिस्सदि । काञ्चुकीयः — भवति ! महती खल्वस्य व्यपाश्रयणा‡ । कथं प्रतिजानीमः । कुतः, सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः । सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ १० ॥ पद्मावती — (ख) अय्य ! पढमं उग्घोसिअ को किं इच्छ दि त्ति अजुत्तं दाणिं विआरिदुं । जं एसो भणादि, तं अणु- चिट्ठदु अय्यो । काञ्चुकीयः — अनुरूपमेतद्भवत्याभिहितम् । चेटी — (ग) चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । तापसी — (घ) चिरं जीवदु भद्दे ! (क) हम् इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति । (ख) आर्य ! प्रथममुद्घोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति, तदनुतिष्ठत्वार्यः । (ग) चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी । (घ) चिरं जीवतु भद्रे ! १. 'हा' ख. पाठः. ‡ व्यपाङ्पूर्वात् श्रिधातौर्बाहुलकाद् भावे युच् ।