स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 123, कुल 204 में से
संदर्भ में पढ़ें१६ स्वप्नवासवदत्ते पद्मावती — (क) अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सदि । यौगन्धरायणः — साधुजनहस्तं गतैषा नोत्कण्ठिष्यति†। (काञ्चुकीयमवलोक्य) गच्छामस्तावत् । काञ्चुकीयः — गच्छतु भवान् पुनर्दर्शनाय । यौगन्धरायणः — १तथास्तु । (निष्क्रान्तः) काञ्चुकीयः — समय इदानीमभ्यन्तरं प्रवेष्टुम् । पद्मावती — (ख) अय्ये ! वन्दामि । तापसी — (ग) जादे ! तव सदिसं भत्तारं लभेहि । वासवदत्ता — (घ) अय्ये ! गच्छामि दाव अहं । तापसी — (ङ) तुवं वि अइरेण भत्तारं २समासादेहि । वासवदत्ता — (च) अणुग्गहीदह्मि । (क) आर्यस्य भगिनिकार्येण विनोत्कण्ठिष्यते । (ख) आर्ये ! वन्दे । (ग) जाते ! तव सदृशं भर्तारं लभस्व । (घ) आर्ये ! गच्छामि तावदहम् । (ङ) त्वमपि अचिरेण भर्तारं समासादय । (च) अनुगृहीतास्मि । १. ‘बाढम्’ ख. पाठः. २. ‘ता ग’ ख. पाठः. ३. ‘लभेहि’ ख. पाठः. † इहानुदात्तेत्त्वलक्षणमात्मनेपदं न कृतमनित्यत्वात् ।