भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 128, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 128

द्वितीयोऽङ्कः । २१ वासवदत्ता — (आत्मगतम्) (क) जाणामि जाणामि । अअं वि¹ जणो एवं उम्मादिदो । चेटी — (ख) भट्टिदारिए! जदि सो राआ विरूवो भवे । वासवदत्ता — (ग) णहि णहि । दंसणिय्यो एव्व । पद्मावती — (घ) अय्ये ! कहं तुवं जाणासि । वासवदत्ता — (आत्मगतम्) (ङ) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो । किं दाणिं करिस्सं । होदु दिट्ठं । (प्रकाशम्) हळा! एवं उज्जइणीओ जणो मन्तेदि । पद्मावती — (च) जुज्जइ । ण खु एसो उज्जइणीदु- ळ्ळहो । सव्वजणमणोभिरामं खु सोभग्गं णाम । (प्रविश्य) धात्री — (छ) जेदु भट्टिदारिआ । भट्टिदारिए ! दिण्णासि । (क) जानामि जानामि । अयमपि जन एवमुन्मादितः । (ख) यदि स राजा विरूपो भवेत् । (ग) भर्तृदारिके ! नहि नहि । दर्शनीय एव । (घ) आर्ये ! कथं त्वं जानासि । (ङ) आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । किमिदानीं करिष्यामि । भवतु दृष्टम् । हला ! एवमुज्जयिन्या जनो मन्त्रयते । (च) युज्यते । न खल्वेष उज्जयिनीदुर्लभः । सर्वजनमनोभिरामं खलु सौभा- ग्यं नाम । (छ) जयतु भर्तृदारिका । भर्तृदारिके ! दत्तासि । १. 'विअ ज' ख. पाठः. २. 'ततः प्रविशति धात्री' क. पाठः.