स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 130, कुल 204 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । २३ वासवदत्ता — (क) अय्ये! सअं एव्व तेण वरिदा । धात्री — (ख) णहि णहि । अण्णप्पओअणेण इह आअ- दस्स अभिजणविण्णाणवओरूवं पेक्खिअ सअं एव्व महा- राएण दिण्णा । वासवदत्ता — (आत्मगतम्) (ग) एव्वं । अणवरद्धो दाणिं एत्थ अय्यउत्तो । (प्रविश्यापरा) चेटी — (घ) तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किळ सोभणं णक्खत्तं । अज्ज एव्व कोदुअमङ्गळं कादव्वं त्ति अम्हाणं भट्टिणी भणादि । वासवदत्ता — (ङ) (आत्मगतम्) जह जह तुवरदि, तह तह अन्धीक(दा?र)इ मे हिअअं । धात्री — (च) एदु एदु भट्टिदारिआ । (निष्क्रान्ताः सर्वे) द्वितीयोऽङ्कः । (क) आर्ये ! स्वयमेव तेन वृता । (ख) नहि नहि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव महाराजेन दत्ता । (ग) एवम् । अनपराद्ध इदानीमत्रार्यपुत्रः । (घ) त्वरतां त्वरतां तावदार्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुक- मङ्गलं कर्तव्यमिति अस्माकं भट्टिनी भणति । (ङ) यथा यथा त्वरते, तथा तथान्धीक्रियते मे हृदयम् । (च) एत्वेतु भर्तृदारिका । १. 'राघो दाणिं अय्य' क. पाठः, २. 'भट्टिदारिआ । अ' ख. पाठः, ३. 'अन्धआरेण पिहिदं विअ मे' ख. पाठः,