स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 132, कुल 204 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । २५ विट्ठा । जाव उवसप्पामि । (उपसृत्य) अय्ये आवन्तिए ! को काळो, तुमं अण्णेसामि । वासवदत्ता — (क) किण्णिमित्तं । चेटी — (ख) अह्माअं भट्टिणी² भणादि — महाकुळप्पसूदा सिणिद्धा णिउणा त्ति। इमं दाव कोदुअमाळिअं गुह्णदु³ अय्या । वासवदत्ता⁴ — (ग) अह कस्स किळ गुम्फिदव्वं । चेटी — (घ) अह्माअं भद्दिदारिआए । वासवदत्ता — (ङ) (आत्मगतम्) एदं वि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा । चेटी — (च) अय्ये ! मा दाणिं अण्णं⁵ चिन्तिअ । एसो जामादुओ मणिभूमीए ल्हाअदि । सिग्घं दाव गुह्मदु अय्या । सर्पामि । आर्ये आवन्तिके ! कः कालः, त्वामन्विष्यामि । (क) किंनिमित्तम् । (ख) अस्माकं भट्टिनी भणति—महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्वार्या । (ग) अथ कस्मै किल गुम्फितव्यम् । (घ) अस्माकं भर्तृदारिकायै । (ङ) एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः । (च) आर्ये ! मेदानीमन्यच्चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फत्वार्या । १. ‘त्ता—(आत्मगतम्) किं’ क. पाठः. २. ‘णीदारिआ भ’ क. पाठः. ३. ‘गुंहदु किळ भ’ ख. पाठः. ४. ‘त्ता-कं’ ख. पाठः. ५. ‘अणुचि’ ख. पाठः.