स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 134, कुल 204 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । २७ वासवदत्ता — (क) आणेहि । (आत्मगतम्) इमं गुह्मामि मन्दभाआ । (वर्जयित्वा* विलोक्य) इमं दाव ओसहं किं णाम । चेटी — (ख) अविहवाकरणं णाम । वासवदत्ता—(ग) (आत्मगतम्) इदं बहुसो गुह्निदव्वं मम अ पदुमावदीए अ । (प्रकाशम्) इमं दाव ओसहं किं णाम । चेटी — (घ) सवत्तिमद्दणं णाम । वासवदत्ता —(ङ) इदं ण गुह्निदव्वं । चेटी — (च) कीस । वासवदत्ता— (छ) उबरदा तस्स भय्या, तं णिप्पओ- अणं त्ति । (प्रविश्यापरा) चेटी — (ज) तुवरदुं२ तुवरदु अय्या । एसो जामादुओ अवि- हवाहि अब्भन्तरचउस्साळं पवेसीअदि । (क) आनय । इयं गुम्फामि मन्दभागा । इदं तावदौषधं किं नाम । (ख) अविधवाकरणं नाम । (ग) इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम । (घ) सपत्नीमर्दनं नाम । (ङ) इदं न गुम्फितव्यम् । (च) कस्मात् । (छ) उपरता तस्य भार्या, तन्निष्प्रयोजनमिति । (ज) त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुश्शालं प्रवेश्यते । १. ‘आव’(?) ख. पाठः. २. ‘दु दाव·अय्या। जा’ क. पाठः.
- अपुष्पं किमपि गुम्फनप्रसङ्गे हस्तप्राप्तं परिहृत्येत्यर्थः ।