स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 140, कुल 204 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः। ३३ वासवदत्ता — (क) हळा! किणिमित्तं वारेसि । पद्मावती — (ख) अय्यउत्तो* इह आअच्छिअ इमं कुसुम- समिद्धिं पेक्खिअ सम्माणिदा भवेअं । वासवदत्ता — (ग) हळा! पिओ दे भत्ता । पद्मावती — (घ) अय्ये ! ण आणामि, अय्यउत्तेण विर- हिदा उक्कण्ठिदौ होमि । वासवदत्ता—(आत्मगतम्) (ङ) दुक्करं खु अहं करेमि । इअं वि णाम एव्वं मन्तेदि । चेटी — (च) अभिजॉदं खु भट्टिदारिआए मन्तिदं—पिओ मे भत्तत्ति । पद्मावती — (छ) एक्को खु मे सन्देहो । वासवदत्ता — (ज) किं किं । (क) हला! किन्निमित्तं वारयसि । (ख) आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् । (ग) हला! प्रियस्ते भर्ता । (घ) आर्ये ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । (ङ) दुष्करं खल्वहं करोमि । इयमपि नामैवं मन्त्रयते । (च) अभिजातं खलु भर्तृदारिकया मन्त्रितं । प्रियो मे भर्तेति । (छ) एकः खलु मे सन्देहः । (ज) किं किम् । १. 'हं' ख. पाठः. २. 'अ' ख. पाठः. ३. 'दा विअ हो' ख. पाठः. ४. 'जादं' ख. पाठः. ५. 'आ मं' ख. पाठः.
- 'अय्यउत्तेण' इति पाठो लेखकप्रमादाद् भ्रष्टो भवेत्।