स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 145, कुल 204 में से
संदर्भ में पढ़ें३८ स्वप्नवासवदत्ते राजा — बाढम् । गच्छाग्रतः । विदूषकः — (क) एव्वं होदु । (उभौ परिक्रामतः) पद्मावती — (ख) सव्वं आउळं कत्तुकामो अय्यवसन्त- ओ । किं दाणिं करेह्म । चेटी — (ग) भट्टिदारिए ! एदं महुअरपरिणीलीणं ओळंबळदं ओधूय भट्ठारं वारइस्सं । पद्मावती — (घ) एव्वं करेहि । (चेटी तथा करोति) विदूषकः — (ङ) अविह अविह, चिट्ठदु चिट्ठदु दाव भवं । राजा — १किमर्थम् । विदूषकः — (च) दासीएपुत्तेहि महुअरेहि पीडिदो ह्नि । राजा — मा मा भवानेवम् । मधुकरसन्त्रासः२ परिहार्यः । पश्य, मधुमदकला मधुकरा मदनातार्ताभिः प्रियाभिरुपगूढाः । पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥ तस्मादिहैवासिष्यावहे । (क) एवं भवतु । (ख) सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः । (ग) भर्तृदारिके ! एतां मधुकरपरिनीलिनामवलम्बलतामवधूय भर्तारं वारयि- ष्यामि । (घ) एवं कुरु । (ङ) अविह अविह, तिष्ठतु तिष्ठतु तावद् भवान् । (च) दास्याःपुत्रैर्मधुकरैः पीडितोऽस्मि । १. 'अथकिम्' ख. पाठः. २. 'सं' ख. पाठः.