स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 149, कुल 204 में से
संदर्भ में पढ़ें४२ स्वप्नवासवदत्ते पद्मावती — (क) हळा ! मा मा एव्वं । सदक्खिण्णो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि । वासवदत्ता — (ख) भद्दे ! अभिजणस्स सदिसं मन्तिदं । राजा — उक्तं मया । भवानिदानीं कथयतु । का भवतः प्रिया तदा वासवदत्ता, इदानीं पद्मावती वा । पद्मावती — (ग) अय्यउत्तो^२ पि वसन्तओ संवुत्तो । विदूषकः — (घ) किं मे विप्पळविदेण । उभओ वि तत्त- होदीओ मे बहुमदाओ । राजा^३—त्रैधेय ! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे । विदूषकः — (ङ) किं मं पि बळकारेण । राजा — अथकिम् , बलात्कारेण । विदूषकः — (च) तेण हि ण सक्कं सोढुं । राजा — प्रसीदतु प्रसीदतु महाब्राह्मणः । स्वैरं स्वैरमभि- धीयताम् । (क) हला ! मा मैवम् । सदाक्षिण्य एवार्यपुत्रः, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति । (ख) भद्रे ! अभिजनस्य सदृशं मन्त्रितम् । (ग) आर्यपुत्रोऽपि वसन्तकः संवृत्तः । (घ) किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । (ङ) किं मामपि बलात्कारेण । (च) तेन हि न शक्यं श्रोतुम् । १. 'न्तिदव्वं' ख. पाठः. २. 'तो व' ख. पाठः. ३. 'जा—अ' ख. पाठः.