स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 15, कुल 204 में से
संदर्भ में पढ़ेंviii INTRODUCTION. The ending of Chârudatta:— “गणिका—एहि इमं अळङ्कारं गह्निअ अय्यचारुदत्तं अहिसरिस्सामो। चेटी—अज्जुए! तह। एदं पुण अभिसारिआसहायभूदं दुद्दिणं उण्ण- मिदं। गणिका—हदासे! मा खु वड्ढावेहि। चेटी—एदु एदु अज्जुआ। (इति निष्क्रान्ते) चतुर्थोऽङ्कः। अवसितं चारुदत्तम्॥” ────── The beginning of Dûtaghatotkacha:— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— नारायणस्त्रिभुवनैकपरायणो वः पायादुपायगतयुक्तिकरः सुराणाम्। लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनाप्रतिसमापनसूत्रधारः॥ एवमार्यमिश्रान् विज्ञापयामि। अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) भो! भोः! निवेद्यतां निवेद्यतां तावत्। सूत्रधारः—भवतु विज्ञातम्। एष खलु संशप्तकानीकनिर्वाहके जनार्द- नसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः कुमा- रोऽभिमन्युः। तथाहि—