भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 155, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 155

अथ पञ्चमोऽङ्कः । (ततः प्रविशति पद्मिनिका) पद्मिनिका—(क) महुअरिऐ ! महुअरिऐ ! आअच्छ दाव सिग्घं। (प्रविश्य) मधुकरिका — (ख) हळा ! इअम्हि । किं करीअदु । पद्मिनिकां — (ग) हळा ! किं ण जाणासि तुवं भट्टिदा- रिआ पदुमावदी सीसंवेदणाए दुक्खाविदे ३ त्ति । मधुकरिका — (घ) हद्धि । पद्मिनिका -- (ङ) हळा ! गच्छ सिग्घं, अय्यं आवन्तिअं सदावेहि । केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि । तदो सअं एव्व आगमिस्सदि । मधुकरिका — (च) हळा ! किं सा करिस्सदि । पद्मिनिका — (छ) सा हु दा६णिं महुराहि कहाहि भट्टिदा- रिआए सीसवेदणं विनोदेदि । (क) मधुकारिके ! मधुकारिके ! आगच्छ तावच्छीघ्रम् । (ख) हला ! इयमस्मि । किं क्रियताम् । (ग) हला ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । (घ) हा धिक् । (ङ) हला ! गच्छ शीघ्रमार्थ्यामावन्तिकां शब्दय । केवलं भर्तृदारिकायाः शीर्षवेद- नामेव निवेदय । ततः स्वयमेवागमिष्यति । (च) हला ! किं सा करिष्यति । (छ) सा खल्विदानीं मधुराभिः कथाभिः भर्तृदारिकायाः शीर्षवेदनां विनोदयति । १. ‘का—किं’ ख. पाठः. २. ‘स्स’ ख. पाठः. ३. ‘दा’ ख. पाठः. ४. ‘य्यं’ क. पाठः. ५. ‘अ’ ख. पाठः. ६. ‘णि’ क. पाठः.