स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 180, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ७३ राजा — शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः । प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता) *राजा — पद्मावति ! त्वमपि तामानय । पद्मावती — (ख) जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) (ततः प्रविशति यौगन्धरायणः प्रतीहारी च) यौगन्धरायणः — (टो?भोः) (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य । सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ १५ ॥ प्रतीहारी — (ग) एसो भट्टा । उवसप्पदु अय्यो । यौगन्धरायणः — जयतु भवान् जयतु । राजा — श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । यौगन्धरायणः — अथकिम् । (क) यद् भर्ताज्ञापयति । (ख) यद् आर्यपुत्र आज्ञापयति । (ग) एष भर्ता । उपसर्पत्वार्यः । १. 'णः प्र' क. पाठः. * 'राजे'त्यादि 'निष्क्रान्ता' इत्यन्तं ख. पुस्तके नास्ति ।