स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 65, कुल 204 में से
संदर्भ में पढ़ें८ उपोद्घातः यथा दूतघटोत्कचस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— नारायणस्त्रिभुवनैकपरायणो वः पायादुपायगतयुक्तिकरः सुराणाम् । लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनाप्रतिसमापनसूत्रधारः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भो! भोः! निवेद्यतां निवेद्यतां तावत् । सूत्रधारः—भवतु विज्ञातम् । एष खलु संशप्तकानीकनिर्वाहके जनार्दन- सहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः कुमारोऽभिमन्युः । तथाहि— यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः । नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ (निष्क्रान्तः ) स्थापना । ” (समाप्तिवाक्यम्)— “घटोत्कचः—पितामह! एष गच्छामि । धृतराष्ट्रः—पौत्र! गच्छ गच्छ । घटोत्कचः—भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः । धर्मं समाचर कुरु स्वजनव्यपेक्षां यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।