स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 74, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः १७ सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । नटी — अय्य! तह । (गायति) सूत्रधारः — अस्मिन् हि काले, चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । (नेपथ्ये) अय्य! अय्य! सूत्रधारः — भवतु विज्ञातम् । मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ (निष्क्रान्तौ) स्थापना ।” (समाप्तिवाक्यम्)— “(भरतवाक्यम्) यथा रामश्च जानक्या बन्धुभिश्च समागतः । तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) सप्तमोऽङ्कः । प्रतिमानाटकं समाप्तम् ॥” एषां नाटकानामुपदर्शितेन नाटकान्तरविलक्षणेन प्रस्थानेन न केवलं, किन्तु केषुचिन्नाटकेषु वाक्यानुपूर्व्यैक्येनापि परस्परसाम्यमुदाहृतवाक्येभ्यः प्रका- नाटकानां | शते । तथाहि — “एवमार्यमिश्रान् विज्ञापयामि । अये किं- मिथः संवादः । | न्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि” इत्येषानुपूर्वी प्रतिज्ञा-चारुदत्त-अविमारक-प्रतिमा-कर्णभारनाटकान्यपहाय सर्वेष्वन्येषु दृश्यते ।