भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 98, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 98

उपोद्घातः ४१ क्रान्तवत्सराजवधप्रतिषेधस्य न्याय्यत्वाच्च। अत एवारुचेर्मन्ये, भामहाचार्यस्तु- तीयं न्यायविरोधं कृत्रिमगजगतविशेषाज्ञानलक्षणं पर्यन्ते समुद्भावयाम्बभूव। किन्तु सूक्ष्मेक्षिकायमेतदपि दूषणं न लगति। प्रतिज्ञानाटिकायां हि वत्सराजच्छलन- वृत्तान्तं निवेदयन् हंसको नाम वक्ति— “तदो दिउणं विअ अद्धाणं गच्छिअ साळरुक्खच्छाआए सवण्णदट्ठणील- दाए परुब्भासिदेहि असरीरविणिलिखितेहि विअ दन्तजुअळेहि सूइदो धणु- सदमत्तेण विअ दिट्ठो सो दिव्ववारणपडिच्छन्दो”

इति। यत्र स कृत्रिमो नीलहस्ती स्थापितस्तत्र वनोद्देशे सालवृक्षच्छायायास्तथा बाहुल्यमासीद्, यथा तद्देहनैल्यस्याविवेकोऽभवदित्यनेन वाक्येन प्रतीयते। तत् कथं दन्तयुगलानुमेयप्राये तस्मिन् कपटहस्तिनि दिवापि कृत्रिमत्वज्ञापकविशेषप्र- हणस्य सम्भवः। कामम् ‘अनर्धागते सूर्ये’ मध्याह्नासन्नकाले वा वत्सराजस्यायं नीलहस्तिग्रहणसम्भ्रम इति प्रतिज्ञानाटिकातोऽवगमात् सान्द्रायापि वनच्छायाया वासरमध्यालोकप्रभावस्यानभिभवनीयत्वाद् दिवा सालवृक्षच्छायाया न गजगतवि- शेषतिरोधानं भवति, तया गजस्वरूपगतनैल्यस्यावच्छादनोक्तिश्चेयमतिशयोक्ति- मात्रमिति मत्वा भामहेन दूषणं दत्तम्, अस्माभिस्तु सालच्छायाबाहुल्येन दिन- प्रभावाभिभवं सम्भावयद्भिरनानुभवसिद्धवस्तुवृत्तकथनरूपां मत्वा तद् दूषणं समा- हितम्। यथा तूक्तं बृहत्कथाप्रतिबिम्बे कथासरित्सागरे* सान्ध्यतिमिरप्रसरोऽपि तदानीं स्थित इति, तथा कृत्रिमगजगतविशेषाज्ञानं वत्सराजस्य सुतरामेवोपप- न्नम्। किन्त्वियं सान्ध्यतिमिरप्रसरवाचोयुक्तिः प्रतिज्ञानाटिकायां नास्ति। बृहत्कथायां तु एषा सोमदेवभट्टेन दृष्टा स्याद्, यां तन्मूले कथासरित्सागरे स निवेशितवान्। बृहत्कथायां चैषा¶ तत्कर्त्तुस्य भामहदूषणस्य परिहारदार्थ्याय कल्पिता स्याद् इति सर्वमनवद्यम्॥

  • द्वितीयलम्बकस्य चतुर्थतरङ्गेऽष्टादशश्लोकः— “गान्धर्वदत्तचित्तत्वात् सन्ध्याध्वान्तवशाच्च सः। न तं वनगतं राजा मायागजमलक्षयत्॥” इति। ¶ एतां चेद् भामहो न्यज्ञास्यत्, कृत्रिमगजगतविशेषाज्ञानस्य न्यायविरुद्धत्वं नावक्ष्यद् इत्यतोऽपि हेतोर्बृहत्कथा भामहादर्वाचीना वेदितव्या।