तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 197, कुल 940 में से
संदर्भ में पढ़ें१६२ तैत्तिरीये आरण्यके
ए॒वं वेद॑, ये नखा॑:, अ॒सौ वै प॑ल्खल्या॑:, अ॒मृतं॒ वा आप॑:, अ॒ङ्ग्य॑:, नवविग्ंशोत्तरं शतं* ॥ १२६ ॥
भद्रं द॑धातु। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः ॐ ॥ तत् सत् ॥
भद्रं कर्णे॑भिः शृणुयाम॑ देवाः। भद्रं प॑श्येमाक्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गैᳵस्तुष्टुवाग्ं॒सस्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृद्ध॒श्रवाः॑। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु। ॐ शान्तिः॑ ३॥ हरिः ॐ ॥
नमो॒ ब्रह्म॑णे नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये नमो॒ विष्ण॑वे बृ॒ह॒ते क॑रोमि ॥ ॐ शान्तिः॑ ३ ॥ ॐ ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
समाप्तोऽयं प्रथमः प्रपाठकः ॥
* दशदशत्यनन्तरं प्रतीकमात्रं प्रदर्शितं। किन्तु १०६ एकाख्याऽष्टयेानोत्यतः परं अद्याय इति प्रतीकपर्य्यन्तमेकादशदशतयः सन्ति। एता हि सङ्कलनया त्रिंशोत्तरशतं दशतयो भवन्ति।