भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 259, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 259

२५४ तैत्तिरीये आरण्यके

वषट्‌का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्विष्ट॒कृत्^(१) ^(२)य ए॒वं वि॒द्वान्मे॒घे व॑र्षति वि॒द्योत॑माने स्तनय॑त्यवस्फू॒र्जति॑ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाध्याय॒मधी॑ते* तप॑ एव तत् तप्यते॒ तपो॒ हि स्वा॒ध्याय॒ इति^(२) ^(३)उ॒त्तमं॒ नाकꣳ

इति । अनध्यायहेतूनापस्तम्बो दर्शयति । विद्युत् स्तनयितु- वृष्टिश्चापत्तौ यत्र सन्निपतेयुस्त्र्यहमन्ध्याय इति । सोय- मकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने स्वी- कार्य एव । यथा सोमयागे ‘हविर्धानं’, न यागविरोधि तथा तत्र ‘मेघः’, अपि । एवं विद्युदादौ द्रष्टव्यं । † अकाले महानु- त्पातरूपो ‘वायुः’ । ‘आत्मा’ यजमानस्थानीयः । स्पष्टमन्यत् ॥

अनध्यायहेतूनां‡ वर्जनीयत्वं निवार्य उपादेयत्वं दर्शयति । (२) “य एवं ॰ स्वाध्याय इति” (२) इति । मेघादयो विरोधिनो न भवन्तीति ‘यो विद्वान्’, सोयं सत्स्वपि मेघादिनिमित्तेषु ‘स्वाध्यायमधीयीत’, तदा ‘तपः’, तप्तं भवति । यस्मादयं ब्रह्मयज्ञः ‘स्वाध्यायः’ कृच्छ्रचान्द्रायणादिवत्तपोरूपः, तस्मान्न सन्त्यनध्या- याः । नहि चान्द्रायणादिकं मेघादिषु वर्ज्यते ॥

कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति । (३) “उत्तमं ॰ सायुज्यं गच्छति” (३) इति । अनेन ब्रह्मयज्ञेन


* स्वाध्यायमधीयीतेति तै० पाठः ।
† “र्वातः” ग्रामग्रहादिदाहकः, इति तै० F च अधिकः पाठः ।
‡ अथ अनध्ययनहेतुना इति तै० पाठः ।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 259, कुल 940 में से · BharatKosha