तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 39, कुल 940 में से
संदर्भ में पढ़ें३४ तैत्तिरीये आरण्यके
तु॒ न हि॑ꣳसातः । स॒तस्त॑ह्ये॒वलक्ष॑णम् । लो॒हि॒ता॒क्षि॒ण॒ शार॑शीर्ष्णा । सूर्य॑स्यो॒दयं॒ प्रति॑⁽२⁾ । ⁽१⁾त्वङ्क॑रोषि॒ न्यञ्ज॑लिकां । त्वङ्क॑रोषि नि॒जानु॑कां ॥ १ ॥
निवारणाय प्रावरण एव प्रयत्नयुक्तौ सन्तौ परस्परं हिंसा- मपि न कुरुतः, यदेतदीदृशं प्राणिनां वर्त्तनं 'तत्' 'एतत्' 'सतः' वर्त्तमानस्य, शिशिरर्त्तोः 'लक्षणं' देवेन सूर्येण सम्पादितं चिह्नं अनेन लक्षणेन शिशिरत्वं विद्यात् । किञ्च तस्यर्त्तौ- रभिमानिदेवताविग्रहे 'अक्षिण' चक्षुषी, 'लोहितः', वर्णः भवति 'शीर्ष्णा', शिरसि, 'शार' शारिमायाः, शुक्लिमायाः, यो वर्णः स वर्णे भवति । कस्मिन् काले अयं वर्णविशेष इति उच्यते । 'सूर्यस्योदयनं प्रति' सूर्योदयवेलायां । अत्र सर्वत्रोच्यमानेषु काललक्षणेषु यथा प्रजा सुसम्भवति तत्र प्रजाद्वारेण कालं लक्षयति । यत्तु प्रजासु न सम्भवति तत् साक्षादेव काला- भिमानिदेवतायां द्रष्टव्यं ॥
अथ तृतीयामाह । ⁽१⁾"त्वङ्करोषि न्यञ्जलिकां ० अमी वा- चमुपासतामिति"⁽१⁾ इति । हे शिशिरर्त्तौ 'त्वं', 'अञ्जलिकां' हस्ताग्रवर्त्तिनमञ्जलिं, 'निकरोषि' न्यग्भूतङ्करोषि, तथा 'जानुकां' जानुप्रदेशमपि, 'त्वं', 'निकरोषि' न्यग्भूतं करोषि । सर्वे प्राणिनः शीतबाहुल्यादग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति । उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी अपि भूमि-