भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 560, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 560

४ प्रपाठके २८ अनुवाकः । ५७७

अथ अष्टाविंशोऽनुवाकः ।

$^{(१)}$विगा॑ इन्द्र॒ विच॑र॒न्त्याश॑यस्व । स्वपन्त॑मिन्द्र प॒शुमन्त॑मिच्छ । वज्रे॑णा॒मुम्बोधय दुर्वि॑दत्रँ । स्व॒पतो॑ऽस्य प्रह॑र भोज॑नेभ्यः$^{(१)}$ । $^{(२)}$अग्ने॑ अ॒ग्निना॒ संव॑दस्व । मृत्यो॑


अथ अष्टाविंशोऽनुवाकः।

कल्पः । यदि धर्मेण चरत्स्वेकवृक उत्तिष्ठेत् । विगा इन्द्र विचरन्त्याशयस्वेति एनमभिमन्त्रयत इति । पाठस्तु । $^{(१)}$“विगा इन्द्र विचरन्त्याशयस्व ० स्वपतोऽस्य प्रहर भोजनेभ्यः”$^{(१)}$ इति । एकाकिलेनारण्ये सञ्चरन् वत्सान्मारयति यः अरण्यश्वा सोऽयं एकवृकः, तद्बाधनमत्र प्रार्थ्यते* । हे ‘इन्द्र,’ ‘विगाः’ वत्सानेक-वृकादियोज्य, तद्रक्षार्थं ‘विशेषेण ‘चरन्,’ ‘स्याशयस्व’ तमे-कवृकं बाधितंकुरु । हे ‘इन्द्र,’ ‘पशुमन्तं’ वत्सान् भक्षयि-तुमायातः पशुभिर्युक्तं तमेकवृकं, ‘स्वपन्तं’ निद्राणं, गच्छ । गत्वा च ‘दुर्विदत्रं’ दुर्बुद्धिशीलं, ‘अमुं’ एकवृकं, ‘वज्रेण’ आयुधेन, बोधय । यथा स्वपन्तं सुप्तं प्रहारेण$^\dagger$ बोधयन्ति, तथा वज्र-प्रहारेण बोधय । बोधयेत्यस्यैवार्थः स्पष्टमुच्यते । ‘स्वपन्तं एनमे-कवृकं, ‘भोजनेभ्यः’ वत्सभक्षणेभ्यः, निवारयितुं ‘प्रहर’ मारय, इत्यर्थः ॥

कल्पः । उभयत आदीप्तोल्मुकमस्मै प्रत्यस्येत् । अग्ने अग्नि-


* प्रार्थयते इति D चिह्नितपुस्तकपाठः ।
$^\dagger$ हस्तप्रहारेण इति E चिह्नितपुस्तकपाठः ।