तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 6, कुल 940 में से
संदर्भ में पढ़ेंतैत्तिरीये आरण्यके
प्रथमप्रपाठके प्रथमोऽनुवाकः।
हरिः ॐ।
भद्रं॒ कर्णे॑भिः शृणुया॒म दे॑वाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑
श्रीगणेशाय नमः।
माधवीये वेदार्थप्रकाशे
तैत्तिरीयारण्यकभाष्यम्।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात्।
कृपालुः सायनाचार्यो वेदार्थं वक्तुमुद्यतः ॥
व्याख्याता सुखबोधार्थं तैत्तिरीयकसंहिता।
B