तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 610, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके २ अनुवाकः । ५९७
तमे॒वाव॑रुन्धे^(२४) । ^(२५)पञ्चै॒ते सं॒भारा॑ भवन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ संभ॑रति^(२५) । ^(२६)यद् ग्रा॒म्याणां॑ प॒शूनां॒ चर्म॑णा॒ संभ॑रेत् । ग्राम्यान् प॒शूञ्छुचा॒ऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ संभ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छुचा॒ऽर्प॑यति । तस्मा॑त् समा॒वत् प॒शूनां॑ प्र॒जाय॑मानानां ॥ ११ ॥
आ॒र॒ण्याः प॒शवः॒ कनी॑यांसः । शुचा॒ ह्यृ॑ताः^(२६) । ^(२७)लोम॑तः॒ संभ॑रति । अतो॒ ह्य॑स्य मेध्यं॑^(२७) । ^(२८)परि॑गृ॒ह्या॑र्यन्ति । रक्ष॑सामप॑हत्यै । ब॒हवो॒ हर॑न्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्व॑ते सिक॑तापो॒ते प॑रिश्रिते॒ निद॑धति॒ शान्त्यै॑^(२८) । ^(२६)मद॑न्तीभिरुप॑सृजति ॥ १२ ॥
तेज॑ ए॒वास्मि॑न्दधाति^(२९) । ^(३०)मधु॑ त्वा॒ मधु॑ला करो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मिं॒स्तेजो॑ दधाति^(३०) । ^(३१)यद्ग्रा॒म्याणां॑ पात्रा॑णां क॒पालैः॑ सँ॒सृजेत्॑ । ग्रा॒म्याणि॑
| २५ | एतन्मन्त्रस्य भाष्यं | ३६१ | पृष्ठे द्रष्टव्यं । |
| २६ | ,, | ३६१ | ,, |
| २७ | ,, | ३६२ | ,, |
| २८ | ,, | ३६३ | ,, |
| २६ | ,, | ३६३ | ,, |
| ३० | ,, | ३६४ | ,, |
| ३१ | ,, | ३६४. | ,, |