तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 612, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके ३ अनुवाकः। ५६६
अथ तृतीयोऽनुवाकः ।
(१)परि॑श्रिते करोति । ब्रह्म॒वर्च॒सस्य॒ परि॑गृहीत्यै^(१) । (२)न कु॒र्वन्न॒भिप्रा॑ण्यात् । यत् कु॒र्वन्न॒भिप्रा॒ण्यात् । प्रा॒णाञ्छु॒चार्प॑येत् । अ॒पह्याय प्राणि॑ति । प्रा॒णानां॑ गोपी॒थाय॑^(२) । (३)न प्र॑व॒र्ग्यं चा॑दि॒त्यं चा॒न्तरे॑यात् । यद॑न्त॒रेया॑त् । दु॒श्चर्मा॑ स्यात् ॥ १ ॥
तस्मा॒न् नान्त॑रा॒य्य॑म् । आ॒त्मनो॑ गोपी॒थाय॑^(३) । (४)वे॒णुना॑ करोति । तेजो॒ वै वे॒णुः । तेज॑: प्र॒वर्ग्य॑: । तेज॑सै॒व तेज॑: समर्ध॑यति^(४) । (५)म॒खस्य॒ शिरो॑ऽसीत्या॑ह । य॒ज्ञो वै मख॑: । तस्यै॒तच्छिर॑: । यत् प्र॑व॒र्ग्य॑: ॥ २ ॥
तस्मा॑दे॒वमा॑ह^(५) । (६)य॒ज्ञस्य॑ प॒दे स्थ इत्या॑ह । य॒ज्ञस्य॒ ह्येते॑ प॒दे । अथो॒ प्रति॑ष्ठित्यै^(६) । (७)गाय॒त्रेण॑ त्वा॒ छन्द॑सा करोमीत्या॑ह । छन्दो॑भिरे॒वैनं॑ करोति^(७) ।
| १ | एतन्मन्त्रस्य भाष्यं | ३६५ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| २ | ,, | ३६५ | ,, |
| ३ | ,, | ३६५ | ,, |
| ४ | ,, | ३८६ | ,, |
| ५ | ,, | ३८६ | ,, |
| ६ | ,, | ३८७ | ,, |
| ७ | ,, | ३८७ | ,, |
4 D