तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 635, कुल 940 में से
संदर्भ में पढ़ें६२२ तैत्तिरीये आरण्यके
पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति⁽³⁴⁾ । ⁽³⁵⁾अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽग्निर्वसु॑मान् । तस्मा॑ ए॒वैनं॑ जुहोति⁽³⁵⁾ । ⁽³⁶⁾सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह । च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवा॑न् । तस्मा॑ ए॒वैनं॑ जुहोति । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह ॥ १० ॥
अ॒प्सु वै वरु॑ण आ॒दित्य॑वान् । तस्मा॑ ए॒वैनं॑ जुहोति । बृ॒हस्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहेत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑ण ए॒वैनं॑ जुहोति⁽³⁶⁾ । ⁽³⁷⁾स॒वि॒त्रे त्वर्भु॑मते वि॒भुम॑ते प्र॒भुम॑ते वाज॑वते॒ स्वाहेत्या॑ह । सं॒व॒त्स॒रो वै स॑वि॒तर्भु॑मान् वि॒भुमा॑न् प्र॒भुमा॑न् वाज॑वान् । तस्मा॑ ए॒वैनं॑ जुहोति⁽³⁷⁾ । ⁽³⁸⁾य॒माय॑ त्वाङ्गि॑रस्वते पि॒तृम॑ते॒ स्वाहेत्या॑ह । प्रा॒णो वै य॒मोऽङ्गि॑रस्वान् पि॒तृमा॑न् ॥ ११ ॥
३५ एतन्मन्त्रस्य भाष्यं ४७६ पृष्ठे द्रष्टव्यं ।
३६ ,, ४७६ ,,
३७ ,, ४७६ ,,
३८ ,, ४७६ ,,