भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 816, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 816

१० प्रपाठके १० अनुवाकः। ८०५

लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॑ जहात्येनां भु॒क्तभो॑गा-
म॒जोऽन्यः॑^(५) ॥ १ ॥

‘स्वधितिः’ परशुः, बभूव । यागहेतुभूतद्रव्यात्मकः ‘सोमः’, भूत्वा ‘रेभन्’ मन्त्रशब्दयुक्तः सन्, ‘पवित्रं’ शुद्धिकारणं गङ्गाजलकुशदर्भादिद्रव्यजातं सर्वं, ‘अत्येति’ ॥

पञ्चमीमृचमाह । ^(५)“अजामेकां लोहितशुक्लकृष्णां ॰ भुक्तभोगामजोऽन्यः”^(५) इति । व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथोक्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न जायत इति ‘अजा’ मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म सम्भवति । सा च माया ‘एका’ इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदासौ तेजोऽबन्नानि त्रीणि भूतानि उत्पाद्य* तद्रूपाऽवतिष्ठते । तदानीं ‘लोहितशुक्लकृष्णा’वर्णैरुपैता भवति । तथा छान्दोगा आमनन्ति । “यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य” इति । अन्नशब्देनच पृथिवी उपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रयात्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन ‘सरूपां’, बहुविधां, ‘प्रजां’, ‘जनयति’ । न जायत इति ‘अजः’ जीवः, तस्यापि माया-


* त्रीणि रूपाण्युत्पाद्य इति F चिह्नितपुस्तकपाठः