तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 816, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके १० अनुवाकः। ८०५
लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॑ जहात्येनां भु॒क्तभो॑गा-
म॒जोऽन्यः॑^(५) ॥ १ ॥
‘स्वधितिः’ परशुः, बभूव । यागहेतुभूतद्रव्यात्मकः ‘सोमः’, भूत्वा ‘रेभन्’ मन्त्रशब्दयुक्तः सन्, ‘पवित्रं’ शुद्धिकारणं गङ्गाजलकुशदर्भादिद्रव्यजातं सर्वं, ‘अत्येति’ ॥
पञ्चमीमृचमाह । ^(५)“अजामेकां लोहितशुक्लकृष्णां ॰ भुक्तभोगामजोऽन्यः”^(५) इति । व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथोक्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न जायत इति ‘अजा’ मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म सम्भवति । सा च माया ‘एका’ इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदासौ तेजोऽबन्नानि त्रीणि भूतानि उत्पाद्य* तद्रूपाऽवतिष्ठते । तदानीं ‘लोहितशुक्लकृष्णा’वर्णैरुपैता भवति । तथा छान्दोगा आमनन्ति । “यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य” इति । अन्नशब्देनच पृथिवी उपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रयात्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन ‘सरूपां’, बहुविधां, ‘प्रजां’, ‘जनयति’ । न जायत इति ‘अजः’ जीवः, तस्यापि माया-
* त्रीणि रूपाण्युत्पाद्य इति F चिह्नितपुस्तकपाठः