तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 923, कुल 940 में से
संदर्भ में पढ़ें६१४ तैत्तिरीये आरण्यके
मूलस्य द्वात्रिंशदनुवाकात्परम् ओमित्येकाक्षरं ब्रह्मेत्यादि सायुज्यं विनियोगमित्यन्तस्त्रयस्त्रिंशदनुवाको भाष्यकारेण न धृतः। तद्यथा—
ओमित्येका॒क्षरं॒ ब्रह्म॑ । अ॒ग्निर्देवता॒ ब्रह्म॑ इत्या॒र्षम् । गाय॒त्रच्छन्दं॑ परमा॒त्मं स॒रूपं॑ । सायु॒ज्यं वि॑नि॒योगं॑ ॥ अनु० ३३ ॥
भाष्यकारस्य षड्विंशोऽनुवाको मूले चतुस्त्रिंशदनुवाकांशत्वेन पञ्चत्रिंशदनुवाकांशत्वेन च सम्पादितः। पञ्चत्रिंशानुवाकस्य ॐ भूरित्यादि शेषभागो भाष्यकारेण सप्तविंशानुवाकत्वेन निष्पादितः। तदेतदनुवाकौ पूर्णौ यथा—
आया॑तु॒ वर॑दा दे॒वी॒ अक्ष॑रं ब्रह्म॒ सम्मि॑तं । गाय॒त्री छन्द॑सां मा॒तेदं ब्रह्म॑ जु॒षस्व॑ मे । यदह्ना॑त् कुरु॑ते पा॒पं॒ तदह्ना॑त् प्रति॒मुच्य॑ते । यद्रात्र्या॑त् कुरु॑ते पा॒पं॒ तद्रात्र्या॑त् प्रति॒मुच्य॑ते । सर्व॑वर्णे म॑हादे॒वि॒ सन्ध्या॑विद्ये स॒रस्व॑ति ॥ अनु० ३४ ॥
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि सर्वा॒युर॒भिभूरों गाय॒त्रीमावा॑हयामि सावि॒त्रीमावा॑हयामि