भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 929, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 929

६२० तैत्तिरीये आरण्यके

मन्युरकार्षी॒न्नमो॒ नमः॑ । मन्युरकार्षीन्मन्युः॑ करो-
ति॒ नाहं करो॑मि मन्युः॑ कर्त्ता॒ नाहं कर्त्ता मन्युः॑ कार-
यि॒ता नाहं॑ कारयिता एष ते मन्यो॒ मन्य॑वे॒ स्वाहा॑ ॥
॥ अनु० ६२ ॥


तिला॒न् जुहो॑मि सरसाꣳ सपिष्टान् गन्धार मम चित्ते
रम॑न्तु स्वाहा॑ । गावो॒ हिर॑ण्यं धनमन्नपानꣳ सर्वेषाꣳ
श्रियै॒ स्वाहा॑ । श्रियञ्च॒ लक्ष्मीञ्च॒ पुष्टिञ्च॒ कीर्त्तिञ्चानृ॒-
ण्यतां ब्रह्म॒ण्यं बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒जाः सन्‍द॑दातु
स्वाहा॑ ॥ अनु० ६३ ॥


तिलाः कृष्णास्ति॑लाः श्वे॒तास्तिलाः सौम्या व॑शानु॒गाः ।
तिलाः पु॒नन्तु॑ मे पा॒पं यत्किञ्चिद्दुरितं म॑यि स्वाहा॑ ।
चो॒र॒स्यान्नं॑ नव॒श्राद्धं॑ ब्रह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयꣳ
सु॑रा॒पानं॑ भ्रू॒णह॑त्या तिला शान्तिꣳ शमय॑न्तु स्वाहा॑ ।
श्रीश्च॒ लक्ष्मीश्च॒ पुष्टीश्च॒ कीर्त्तिञ्चानृ॒ण्यतां । ब्रह्म॒ण्यं
बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒ज्ञा तु जा॒तवेदः सन्‍द॑दातु
स्वाहा॑ ॥ अनु० ६४ ॥