तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 107, कुल 345 में से
संदर्भ में पढ़ें७८ (१.२.१) तैत्तिरीयब्राह्मणम् प्रा॒णं त्वा॒ऽमृते॒ आद॑धामि । अ॒न्नाद॒मन्नाद्या॑य । गो॒प्तारं॑ गु॒प्त्यै॑ । यत्तै॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदि॒हि तेन॑ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा । आन॑शे व्या॑न॒शे सर्व॒मायु॒र्व्या॑निशे (२४), इति । ह आहवनीय प्राणरूपं त्वाममृते स्थाने विनाशरहित आदधामि। अस्माकमन्नाद्यसिद्ध्यर्थमन्नादं त्वाऽऽदधामि। रक्षणार्थं गोप्तारं त्वामादधामि । सोऽयमेको मन्त्रः । हे शुक्र दीप्यमानाग्ने तव यच्छुक्रं वर्चो निर्मला कान्तिर्या च शुक्रा तनूर्निर्मलो देहो यच्चाजस्रं निरन्तरं शुक्रं ज्योतिर्निर्मलमितरभासकत्वं तेन सर्वेण युक्तो मे मदर्थं दीदीहि प्रकाशस्व । तेन कारणेन हेऽग्नेऽग्निना ब्रह्मणाऽग्निप्रकाशकेन मन्त्रेण त्वामादधे । अयं द्वितीयो मन्त्रः। अयमग्निरानशे भोक्तृदेहं व्याप्तवान् । व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुरपमृत्युपरिहारेण व्याप्तवान् । अयं तृतीयो मन्त्रः । तावेतौ द्वितीयतृतीयौ “धर्मः शिरः ” इत्यनुवाकेऽप्याम्नातौ । तयोः प्राचीमितिमन्त्रवत्पृथगुपयोगः सूत्रान्तरे द्रष्टव्यः । यद्वाऽस्यानुवाकस्य मन्त्रकाण्डानुरूपत्वाद् धर्मः शिर इत्यादिकमप्यत्रत्यमेवेति दर्शयितुं तदेकदेशोऽत्र पठति । ब्राह्मणसंबन्धार्थं तत्राऽऽम्नातं (नं) द्रष्टव्यम् । यदुक्तं सूत्रकारेण-“अथ विराट् कर्मयजमान उपतिष्ठते ” इति, तत्र प्रथमं विराट् क्रममन्त्रमाह- नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसै॑ । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम्, इति । हे नर्य मनुष्येभ्यो हित गार्हपत्य मे मदीयां प्रजां गोपाय । किमर्थममृतत्वाय जीवसेऽपमृत्युरहितजीवनाय । कीदृशीं प्रजाम् । पूर्वमुत्पन्नामितः परमुत्पत्स्यमानां च । तथाऽमृतत्वहेतौ सत्ये प्रतिष्ठितां सर्वदा सत्यवादिनीमित्यर्थः । अथ द्वितीयमाह- अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हाऽऽयु॑षे । अद॑ब्धायो॒ऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु, इति ।