तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 123, कुल 345 में से
संदर्भ में पढ़ें९४ (१.२.५) तैत्तिरीयब्राह्मणम् कर्तुमशक्या । नवामामेवाहानामवशिष्टत्वात्संवत्सरपूरणाय तावदष्टाहान्यवशिष्टानि । मध्ये विषुवत एकस्याह्नोऽधिकस्य प्रविष्टत्वादत्र नवाहावशेषः । तेषु नवसु पशुभावेन येयमप्रतिष्ठा प्राप्ता तां वारयितुं क्रमेण नव पशून्वैष्णवादीन्विधत्ते- वै॒ष्ण॒वं वा॑म॒नमाल॑भन्ते । य॒ज्ञो वै विष्णु॑:। य॒ज्ञमे॒वाऽ ल॑भन्ते॒ प्रति॑ष्ठित्यै ऐन्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाऽऽल॑भन्ते (१) । वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थि॒व्यां धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति । वा॒य॒व्यं॑ व॒त्समाल॑भन्ते । वा॒युरे॒वैभ्यो॒ यथा॑ऽऽय॒तना॑द्दे॒वता॒ अवरुन्धे । आ॒दि॒त्याम॑तिं व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । मै॒त्रा॒व॒रू॒णीमाल॑भन्ते (२) । मि॒त्रेणै॒व य॒ज्ञस्य॑ स्वि॑ष्ट ँ शमयन्ति । वरु॑णेन दु॒रिष्ट॑म् । प्रा॒जा॒प॒त्यं तूप॑रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्ह्री॑यते । आ॒ग्ने॒यमाल॑भन्ते प्रति॒प्रज्ञा॑त्यै, इति । प्राजापत्याभ्यां पश्वतिग्राह्याभ्यां महाव्रताख्यमहः प्रजापतिसंबन्धात्स्वानुकूलेन रूपेण समृद्धं भवति । अपि च प्रजापतिसंबंधोऽस्याह्नोऽस्तीतीत्येवं पूजा च संपद्यते । आग्नेयेन च पशुनाऽग्निप्रकाशवद् बुद्धिप्रकाशरूपं प्रज्ञानं संपद्यते । स्पष्टमन्यत् । तानेतान्पशून्देवताद्वारा प्रत्येकं प्रशस्य जातिद्वारा पुनः प्रशंसति- अ॒ज॒पे॒त्वा॒न्वा ए॒ते पूर्वै॒र्मासै॒र्वरु॑न्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्तै॑ । उ॒भये॑षां प॒शूना॒मव॑रुद्ध्यै, इति । आग्नेयः कृष्णग्रीव इत्यादिकाः सर्वेऽप्यजास्तेष्वन्तिमः पेत्वो