भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 137, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 137

१०८ (१.३.१) तैत्तिरीयब्राह्मणम् अरु॑न्धतै॒व तद्दे॒वति॑ संभृतसंभा॒र इत्या॑हु॒र्ऋच्छ॑ति पत्नीसंया॒जा नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीब्राह्मणे प्रथमाष्टके तृतीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ एतत्पुनराधेयमस्मदुक्तप्रकारेणाऽऽज्यभागयोः पत्नीसंयाजानां च यथा पूर्वत्वेऽपि समृद्धिहीनं न भवतीत्युत्तरं ब्रूयात् । कथमिति तदुच्यते । प्रथमं यागादौ प्रयाजगतविभक्तीनां संबन्धित्वादग्निर्यष्टव्यः । अवसाने च पत्नी संयोजेषूत्तममग्निं यजेत् । तत्र च-“अग्निर्होता गृहपतिः” इत्याग्नेयो मन्त्र आम्नातः . अत्र आद्यन्तयोराग्नेयत्वेन तन्मध्यपतितं सर्वमाग्नेयं संपद्यते । तेन पुनराधेयं समृद्धं कुरुते । अत्र मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्- बुधन्वत्तादिगुणको देवो वाच्योऽथ केवलः । आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः ॥ (इति) । आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते-“ बुधन्वानाग्नेयः कार्यः पाक्वान्सौम्यः” इति । तथा पुनराधेयेऽपि श्रूयत- “बुधन्वत्याग्नेयस्याऽऽ ज्यभागस्य पुरोनुवाक्या भवति” इति । अत्र निगमेषु “ बुधन्वन्तमग्निमावह पावकवन्तं सोममावह” इत्येवं सगुणो देवो वक्तव्यः । कुतः । बुधन्वत्तादेर्देवगणत्वात् । तथा हि । बुधशब्दोऽस्यास्तीति बुधन्वान् । न खल्वाज्यभागस्य देवताद्वारेण विना साक्षाद् बुधशब्दत्वं संभवति । तस्मादेव गुणत्वात्सगुणो देवो वक्तव्यः । मैवम् । बुधन्वत्तादेर्मन्त्रगुणत्वात् । न ह्यत्राऽऽ ग्नेयशब्दो यागपरः । किं तु मन्त्रपरः । संभवति हि मन्त्रस्य साक्षादेव बुधशब्दप्रयोगः “अग्नि ँ स्तोमेन बोधय” इत्यस्मिन्मन्त्रे बुधिधातोः प्रयुक्तत्वात् । बुधन्वता विधिना चाऽऽग्नेयं मन्त्रान्तरं निवर्त्यते । न च तद्धितान्त आग्नेयपद उपसर्जनभूतो देवतावाचकोऽग्निशब्दो बुधन्वच्छब्देन विशेष्टुमर्हति । तस्मात्केवलोऽग्निशब्दो निगमे पठितव्यः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 137, कुल 345 में से · BharatKosha