तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 161, कुल 345 में से
संदर्भ में पढ़ें१३२ (१.३.५) तैत्तिरीयब्राह्मणम् प्रातः सवनमाध्यन्दिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्तीति योज्येत तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यादतस्तृतीय सवनगतसोमानामुपरीति वक्तव्यम् । यदि तत्र सर्वसोमानामुपरीति विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्यते । ततः प्रत्यासत्तये शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः । उपरिष्टात्सो- मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत । तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्टोमे यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः। तस्य विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः । सोमविकाराणामेवायं कालःपशवस्तु न सोमविकारस्त- स्मादविशेषवचनानुसारेण प्राकृतानां वैकृताना च सर्वेषां सोमानामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः । तत्रैव द्वितीय पादे चिन्तितम्- पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि । कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत् ।। किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः । अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः ।। (इति) । वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते-“ तान्पर्यग्निकृ- तानुत्सृजति । ब्रह्मसाम्न्यालभते” इति । तेषु सप़्दशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते । अश्वमेधे पर्यग्निकृतानारण्यानुत्सृजन्तीत्यत्र कर्मशेषनिषेधस्य संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणपर्यन्ताः समापनीयाः । आलम्भवचनेन च ब्रह्मसामकलेकर्मान्तरं विधीयत इति प्राप्ते ब्रूमः । कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किंच ब्रह्मसाम्न्यालभत इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति । तस्मात्पर्यग्नि- करणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते । तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभा विकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥