तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 166, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.६) १३७ लो॒कः काष्ठां॑ । सु॒वर्ग॒मेव लो॒कं य॑न्ति, इति । दिग्विशेषं विधातुं प्रस्तौति- सु॒वर्गं॑ वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति, इति । विधत्ते- प्राञ्चो॑ धावन्ति । प्राङ्ङि॒व हि सु॑व॒र्गो लो॒कः, इति । प्राञ्चः पूर्वाभिमुखाः । ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम् । कल्पः-“अथ रथान्धावतोऽनुमन्त्रयते, बजे वाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसम् ” इति । तंत्रेयमुक्तप्रथमाह- वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋत॒ज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑, इति । हे वाजिनोऽश्वा वाजे वाजे तत्तदन्ननिमित्तं धनमिमित्तं च नोऽस्मानवत् । विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गंतव्यदेशं जानन्तस्तादृगश्वाभिमानिनो हे देवा अस्य मध्वः पिबत, धावनात्पूर्वं पश्चाच्चावघ्राष्यमाणं मधुसमानं नैवारचरुरसं पिबत । पीत्वा च मादयध्वं हृष्टा भवत । ततस्तृप्ताः सन्तो देवयानैः पथिभिराजिं प्रति यात । अथ द्वितीया- ते नो॒ अर्व॑न्तो हव॒नश्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिन॑, इति । तेऽश्वा अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु । अथ तृतीया- मि॒तद्र॑वः सहस्रसा मेधसाता॒ सनि॑ष्यव॑ । म॒हो ये रत्न॒ ँसमि॑थेषु॒ । ज॒भि॒रे शं नो॑ भवन्तु वा॒जिनो॑ ह॒वेषु॑, इति । महान्तमपि पन्थानं मितमपामिव द्रवन्ति गच्छन्तीति मितद्रवः । सहस्रमाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता यज्ञस्य प्रदातारः । सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः । ईदृशा येऽश्वाः समियेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोधनं जभ्रिरे जितवन्तस्ते वाजिनो नोऽस्माकं शं भवन्तु सुखकरा भवन्तु । अथ चतुर्थी- दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः॑ । जम्भ॑य॒न्तोऽहिं॒ वृक॒ ँ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यवन् । अमी॑वाः, इति । देवताता देवानर्हन्तीति देवतांतयः । मितद्रवः पूर्ववत् । स्वर्काः शीघ्रधावनेन सुष्ठावर्चनीयाः ते वाजिनोऽहिं वृकं रक्षांसि