तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 171, कुल 345 में से
संदर्भ में पढ़ें१४२ (१.३.६) तैत्तिरीयब्राह्मणम् कल्पः-“अथ रथान् विमुच्यमानाननुमन्त्रयते- इ॒यं वः॑ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण॒ सम॑धध्वम्” इति । हे रथा वो युष्माकमियं संघाऽऽजिधावनप्रतिज्ञा सा सत्याऽभूत् । यां प्रतिज्ञामिन्द्रेणेन्द्रानुग्रहेण समधध्वं सम्यग्धारिवन्तः । इन्द्रानुग्रहायैवेन्द्रस्य वज्रोऽसीति रथमन्त्र आम्नान्तः । कल्पः-“ दुन्दुभीनवस्यतोऽनुमन्त्रयते- अजी॑जिन्त॒ वन॑स्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ” इति । हे वनस्पतयो वनस्पतिविकारा दुन्दुभय इन्द्रं यागस्वामिनं वाजमन्नमुद्दिश्याजीजिपत यथा जितवान्भवति तथा जितवन्तः । तादृशा यूयं पूर्वं यत्र बद्धास्ततो विमुच्यध्वं विमुक्ता भवत । बन्धनप्रदेशस्त्वापस्तम्बेन दर्शितः- “दक्षिणस्यां वेदिश्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नाति” इति । विधत्ते- अजी॑जिपत वन॒स्पत॑य॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दु॒न्दुभीन्विमु॑ञ्चति । य॒मे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे (९), इति । अभिज॑यति॒ वा ए॒षा वा॒न्दी॑यन्त्य॒ऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ । अत्र देवतयाऽष्टौ च । अत्र विनियोगसंग्रहः- देवाऽऽरोहेद्रथं स्वामी ब्रह्मारोहणन्त्रणम् । देवेतीन्द्रा दुन्दुभीनां घोषोऽश्वाज कशाग्रहः ॥ अर्वाऽसीति विभिर्मन्त्रैर्युक्त्यश्वत्रयं रथे । वाजीत्येतैर्मन्त्रयेत चतुर्भिर्धावतो रथान् ॥ मितेत्याभिश्चतसृभिस्तान्प्रत्याधावतो रथान् । आ मा रथविमुक्त्याख्यं जुहुयाद्वाजिनद्वयात् ॥ गतेः पुरोपरिष्टाच्च घ्रापयेच्चरुमश्वकान् । बृहादिजिप्रतेत्यन्तो द्वितीयेऽप्यनुषज्यते ॥ बृहेति मार्ष्टि घोणायामियं तु रथमन्त्रणम् । अजीदुन्दुमन्त्रः स्यादेकविंशतिरीरिताः ॥ इति ।