भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 193, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 193

१६४ (१.३.१०) तैत्तिरीयब्राह्मणम् पिण्डदानस्य त्रित्वं प्रशंसति- त्रिर्निद॑धाति । तृ॒तीये॑ वा इ॒तो लो॒के पि॒तर॑: । ताने॒व प्री॑णाति, इति । इतो भूलोकादारभ्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति । विधत्ते- परा॒ङाव॑र्तते (५) । ह्रीका॑ हि पि॒तर॑:, इति । दक्षिणाभिमुखः पिण्डं दत्वा पिण्डनिरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलत्वात् । लोकेऽपि हि भुञ्जानाः प्रभवो नान्यैर्वीक्ष्यन्ते । विधत्ते- ओष्मणो॑ व्या॒वृत्त॒ उपा॑स्ते । ऊ॒ष्मभा॑गा हि पि॒तर॑: इति । औष्ण्यवशात्पिण्डेषु योऽयमूष्मा निर्गच्छति तस्य यावदुपरमोऽव्यावृत्तस्तदुपरमपर्यन्तं तथैव स्थित्वा सेवेत । पितॄणामूष्मभागित्वेन तच्छान्तिपर्यन्तं तद्भोजनकालत्वात् । अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽघ्राणं विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या३ं न प्राश्या३मिति॑ । यत्प्राश्नी॒यात् । ज॒न्यमन्न॑मद्यात् । प्रमायु॑कः स्यात् । यन्न प्राश्नी॒यात् । अह॑वि स्यात् । (६) पि॒तृभ्य॒ आवृ॑श्च्येत । अव॑घ्रेयमे॒व । तन्नेव॒ प्राशि॑तं॒ नवाप्रा॑शितम्, इति । विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनी- यस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेषस्य भक्षणदर्शनादिदं हविरेव न स्यात् । अतोऽयं पितृभ्यो विच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रेदेव । तदवघ्रातं प्राशितमिव न भवति । निगरणाभावात् । अप्राशितमिव न भवति । तदीयगन्धस्यान्तः प्रवेशात् ।

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 193, कुल 345 में से · BharatKosha