तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 195, कुल 345 में से
संदर्भ में पढ़ें१६६ (१.३.१०) तैत्तिरीयब्राह्मणम् वसि॑ष्ठा भूयास्त । ये॑ऽस्मिँल्लोक । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठः समा॒नानां॑ भवति । य ए॒वं वि॒द्वान्पि॒तृभ्य॑: करो॒ति, इति । हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । तदीया स्त्री । पितरो हि स्वधायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो । स्वधामारणादिव्यापारः । हे पितरो यूयमेतस्मिँल्लोके स्थितास्तेभ्यो युष्मभ्यं नमः । ये तु युष्मत्तोऽन्ये परकीयपितरोऽस्मिँल्लोके वर्तन्ते ते सर्वे युष्माननुवर्तन्ताम् । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते ते सर्वे मामनुवर्तन्ताम् । ये यूयं परकीयेः पितृभिः सहास्मिंल्लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवारहेतवो भूयास्त । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं नव्यं नमस्कुर्वन्पठेत् । यः पुमानेवं नमस्कारमन्त्रं विद्वान्पित्रर्थंपिण्डदानं करोति स एष समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति । पिण्डपितृयज्ञं प्रशंसति- ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः (९) । दे॒वानां॒ वा इतरे॑ य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के चरति, इति । द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः । ये तु देवास्तेषां दर्शपूर्णमासादिका इतरं यज्ञाः । तस्मादेतेन पिण्ड- पितृयज्ञेनैषपुरुषः पितृलोके चरति । अथ “प्रजापते न त्वदेतानि” इति मन्त्रेण गार्हपत्यदेशं प्रत्यागमनं विधत्ते- यः पि॒तृभ्य॑: करो॒ति॑ । स ई॑श्व॒रः प्रमेतो॑: । प्रा॒जा॒प॒त्यर्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व सह॒ पुन॒रैति॑ । न प्रमा॑यु॒को भवति, इति । यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृप्रियत्वात्सहसा मर्तुं सुसमर्थो भवति । तत्परिहाराय प्राजापत्यमन्त्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्रष्टृत्वेन यज्ञरूपत्वाद्यज्ञेनैव सह पुनरागतो भवति । अतो न म्रियते ।