तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 254, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.२) २२५ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ अथ पञ्चमप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाके वैकृतिनक्षत्रैष्टकामन्त्रा उक्ताः । अथ द्वितीयतृतीययोरनुवाकयोः कर्मानुष्ठानाय पुण्यकालो निरूप्यते । तस्य चानारभ्याधीतत्वात्कर्मविशेषसंबन्धापादकस्य वाक्यादेरभावाच्च क्रत्वर्थत्वं नास्ति, किं तु पुरुषार्थत्वमित्यवगन्तव्यम् । तत्रास्मिन्ननुवाके नक्षत्रमुपजीव्य कालविशेषं विधत्ते- यत्पुण्यं॒ नक्ष॑त्रम् । तद्बट् कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्रं नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् । ज॒घ॒न्यं पश्ये॑त् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पुण्य॑ऽह एव कु॑रुते । एव ँह॒ वै य॒ज्ञेषु॑ च॒ शत॑द्युम्नं च मा॒त्स्यो निर॑वसा॒याञ्च॑कार (१), इति । ज्योतिःशास्त्रप्रसिद्ध्या कर्तुः स्वस्य क्रियमाणस्य कर्मणश्चानुकूलत्वेन पुण्यं यन्नक्षत्रमस्ति, उपव्युषः कालसमीपे तन्नक्षत्रं बट् कुर्वीत बाढं कुर्वीत । आकाशे सूर्योदयदेशादूर्ध्वमेतावति दूरे तन्नक्षत्रं तिष्ठतीति बुद्धौ दृढनिश्चयं कुर्यात् । उपव्युषमित्यस्यैवाभिप्रायः स्पष्टी क्रियते । यस्मिन्काले सूर्य उदेति तस्मिन्काले तन्नक्षत्रं पुरुषो नैति न प्राप्नोति । सूर्यप्रकाशने तिरोहितत्वाद् द्रष्टुं न शक्यत इत्युदयात्प्रागेव नक्षत्रदर्शनकाले तस्य स्थानविशेषं निश्चिनुयात् । तच्च नक्षत्रं यावत्प्राच्यामुदयं प्राप्य पश्चिमाभिमुखं गच्छति । तथा सति यस्मिन्देशे नक्षत्रस्थानं स्वेन निश्चितं तत्स्थानात्प्राचीनः समीपदेशस्तन्नक्षत्रापेक्षया जघन्यः । तस्मिञ्जघन्यदेशे यावति काले सूर्यो गच्छेत्तावति काले स्वेन कर्तव्यं कर्म कुर्यात् । यत्कर्म करोतीति यत्कारी । तादृशश्चिकीर्षुः पुरुषस्तस्मिन्काले प्रारभेत । तथा सति सत्स्वपि शास्त्रोक्तेषु कालदोषेषु तेषां दोषाणामुपशमादयं पुरुषः पुण्याह एव तत्कृतवान्भवति । तदेतत्साम्प्रदायिकम् । यस्मान्मात्स्यो नाम कश्चिदृषिर्यज्ञेषुनामकं शतद्युम्नं च पुरुषमीदृशे मुहूर्ते कारयित्वा निःशेषेण श्रेष्ठ्यं प्रापयामास । अथ प्रसङ्गाल्लोकद्वये श्रेयः साधनं नक्षत्रसमूहध्यानविशेषं विधत्ते-