भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 278, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 278

तैत्तिरीयब्राह्मणम् (१.५.९) २४९ त आ॑तिथ्यम॒भिस॒मारोहन् । तद॑प॒द्रुत्या॑तन्वत । तानि डान्तु उपाऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑देता एतद॑न्ता इष्ट॑यः संति॑ष्ठन्ते (३), इति । पत्नीसंयाजानामेकविधत्वान्नास्ति तत्र संदेहः शंखिडयोर्द्वैविध्यमस्ति । पत्नीसंयाजेभ्यः पूर्वं होत्रा शंयुवाकेऽनूच्यमान आहवनीये परिधीननुप्रहरति । सोऽयमेकः प्रकारः आश्वलायनस्तु पत्नीसंयाजानभिधाय तदूर्ध्वं शंयुवाकविकल्पमुदाजहार-“संयुवाको भवेन्न वा” इति । पुरोडाशेनाऽऽज्येनेत्येवमिडाऽपि द्विविधा । तत्र पूर्वमिडान्तत्वं द्रष्टव्यम् । एवमिष्टीः प्रशस्य तास्तिस्र इष्टीर्विधत्ते- एवं ँहि दे॒वा अ॑कुर्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्या॑: कुर्वते, इति । यस्मादेवमुक्तप्रकारेण देवा अकुर्वत तस्मान्मनुष्या अप्यनेनैव प्रकारेणेष्टीः कुर्युः । मध्ये पठितमिति देवा इति वाक्यं मनुष्यवक्तृकोऽनुवादः । इति देवा इत्यनेन प्रकारेण कृतवन्त इत्यनूद्य तत्सर्वं देवानुष्ठितप्रकारं हृदि निधाय पश्चात्तदनुतिष्ठन्ति । अथोपसदनुष्ठानप्रकारं विधातुं स्तौति- ते दे॒वा ऊ॑चुः । यद्वा इ॒दमुच्चैर्य॒ज्ञेन॒ चरा॑म । तन्नो॒ऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उपाँ॒शूप॑सदं॑ चराम । तथा॒ नोऽसु॑राः पा॒प्मा नाऽनु॑ वेत्स्य॒न्तीति॑ । त उपाँ॒शूप॑सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ (४) । स्रु॒वेणाऽऽघा॒रमा॒धार्य॑ । ति॒स्रः परा॑चीराहुती॒र्हुत्वा॑ । स्रुवेणोप॒सदं॑ जुहु॒वांच॑क्रुः । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ ँस्वाहाति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वर्च॑: एन॑श्च वैरह॒त्यं च॑ त्वे॒षं वर्च॑: । ए॒तं ँहु वाव तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॑ दे॒वा अपा॑जघ्निरे, इति ।