तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 289, कुल 345 में से
संदर्भ में पढ़ें२६० (१.५.११) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ अथ पञ्चमप्रपाठक एकादशोऽनुवाकः । दशमे त्रिवृदादिस्तोमा विहिताः । एकादशे सवनीयपशुपुरोडाशा उच्यन्ते । यदुक्तं संहितायाः षष्ठे काण्डे-“तस्मादनुसवनं पुरोडाशा निरूप्यन्ते” इति । ते पुरोडाशा अत्र प्रपञ्च्यन्ते । तत्राऽऽदौ तावज्ज्योतिष्टोमे स्तोमानांमियत्तां दर्शयति- ये वै च॒त्वारः॒ स्तोमाः॑ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । क॒लिः सः । तस्मा॑च्चतुष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टो॒मत्वम्, इति । पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवंरूपाः स्तोमा ये सन्ति ते कृतयुगस्य स्वरूपभूताः । कृतयुगे धर्मस्य चत्वारः पादा विद्यन्ते । ये त्वन्येन केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां कलियुगरूपत्वम् । तत्र तन्मध्यगतानां चतुर्णां कृतयुगार्थत्वेन विभागे सति क्लेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलियुग एकपादेव । ततः कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य निन्दितत्वा- द्यतुष्टोमपक्षस्य एक कृतयुगस्वरूपत्वेन प्रशस्तत्वादयं सोमयागश्चतुष्टोम एव कर्तव्यः । चत्वारः स्तोमा अत्रेति व्युत्पत्या सोमयागस्य चतुष्टोमत्वं संपन्नम् । अथ प्रश्नोत्तराभ्यां स्तोमानां ज्योतिष्ट्वं संपादयति- तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीं॑षि । य ए॒तस्य॒ स्तोमा॑ इति॑ । त्रि॒वृत्प॑ञ्चद॒शः स॑प्तद॒श एक॑वि॒शः (१) । ए॒तानि॒ वाव तानि ज्योती॑षि । य ए॒तस्य॒ स्तोमाः॑, इति । ज्योतिष्टोमनाम्येत्तस्मिन्यागे यानि ज्योतींषि स्तोमाश्च प्रतीयन्ते । सामानाधिकरण्यात्तु स्तोमानामेव ज्योतिष्ट्वमवभासते । तत्र केचित्स्तोमाः पूर्वमुदाहृताः । इतः परं य एतस्य स्तोमा ज्योतिष्ट्वार्हास्तेषु च स्तोमेषु ज्योतींषि कानीत्येवं जिज्ञासवः पप्रच्छुः । ये पूर्वमुक्तास्त्रिवृदाद्याश्चत्वारः स्तोमास्त एवैतस्य यागस्य ज्योतींषि। एतैर्हि स्तोमैर्निष्पाद्यत्वेन ज्योतिर्भिरिव यागोऽवभास्यते । अत एव सप्तमकाण्डे समाम्नातम्- “तस्मात्तज्ज्योतिरुच्यते द्वौ स्तोमौ प्रातः सवनं वहतः” इत्यादि ।